________________
अनुमानपरिच्छेदः । न दोषाय। यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति । शेषं व्यक्तम् ॥ २३४ ॥
पुनरुतान्तरमाह।
अर्थादापत्रस्य स्वशब्देन पुनर्वचनं पुनरुक्त मिति । प्रागुक्तशब्दसामर्थरूपादादापत्रयार्थस्य तदर्थप्रतिपादकेन शब्देन यत्पुनर्भणनं तदपि पुनरुक्तं निग्रहस्थानं भवतीत्यर्थः ॥२३५॥ एतनिदर्शयति ।
यथा साधोदाहरणेऽभिहित वधोदाहरणाभिधानमिति ॥
अयं भावः। दृष्टान्तो हि व्याप्तिनिश्चित्यै निदर्श्यते । सा चेदे केनैव सिद्धा तदा द्वितीयो बन्लादपि पौनरुत्यकुक्षिनिक्षिप्तः स्यात् ।
ननु हेतोरन्वयव्यतिरेकावगमाथं उभयमभिधेयमिति चेन्न । अन्वयव्यतिरकिणोऽन्यत्र साधम्यवैधयॊदाहरणयोरवश्यम्भावाभावात् । अन्वयव्यतिरेकिण्यपि परापेक्षां विना यदि इयमभिधीयते तदा पौनरुक्त्यमेवमपेक्षायां तु न कश्चिद्दोषः ॥ २३६ ॥ आशङ्कयोत्तरयति ।
कथं तत् निग्रहस्थानमिति कथावसानविरोधित्वादेकेन लतकवादितरानर्थक्यादिति ॥
कथावसानेति प्रसतानुप्रसत्या कथान्तं न यायादिति । पेषं स्पष्टम् । इदमपि निग्रहस्थानं नियतकथायां नान्यत्र विरोधा
Aho! Shrutgyanaml