________________
२००
अधिकमभिधत्ते ।
न्यायात्पदीपिका ।
हेतूदाहरणाधिकमधिकमिति ॥
एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादितेऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा प्रयुञ्जानस्याधिकं नाम निग्रहस्थानं भवति । अत्र हेतूदाहरणग्रहणं सर्व्वाधिकोपलक्षणार्थम् । तेनोपनयनिगमनाधिकामपि निग्रहाय वेदितव्यम् । इदं तु निग्रहस्थानमेक एव हेतु - दृष्टान्तो वा मयाऽभिधेय इति नियमकथायामेव नान्यत्र ॥२३१॥ अधिकस्य निग्रहस्थानत्वे हेतुमाह ।
* एकेन कृतकत्वादितरानर्थक्यादिति ॥
स्पष्टमेतत् ॥ २३२ ॥
पुनरुक्तं व्यनक्ति ।
शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादादिति ॥ शब्दस्यार्थस्य चाभिहितस्य पुनरभिधानं पुनरुक्तं नाम निग्रह
स्थानं भवत्यनुवादादन्यत्र ॥ २३३ ॥
एतदेव व्याचष्टे ।
सार्थकं पुनर्वचनमनुवादस्तद्यतिरेकेण पुनरभिधानं नित्य: शब्दो नित्यः शब्द इति शब्दपुनरुक्तम् । नित्यो ध्वनिरविनाशी शब्द इत्यर्थपुनरुक्तमिति ॥
उक्तमपि वचो यत्र स्वार्थेन पुनरुच्यते सोऽनुवादस्तत्र पौनरुक्त्यं
*
The Text reads ""ततार्थत्वात्" instead of "कतकस्वात्" [ Sce page 25. Line 16 ].
Aho! Shrutgyanam