________________
१८०
न्यायतात्पर्यदीपिका।
त्वस्येत्यादि। अन्यत्वस्यात्मनः सकाशादन्यत्वादभिन्नत्वादन्यत्वं न भवतीत्यनन्यसमादीन्यमदुत्तराणि । एतेन कतिपयजातिस्वरूपनिरूपणेनोत्तराभिधानेन च प्रत्याख्यातानि नेयानि । तथा मूलसूत्रोक्त चतुर्विशतिजातीनां मध्ये प्रसङ्गप्रतिष्ठान्तसंशयप्रकरणापत्त्युपपत्त्यनित्य कार्य समानामष्टजातीनां यदव लक्षणोत्तरे न व्याचख्याते तदासामावेवान्तर्भावादित्यूह्यम् ।। २०२ ॥ अन्येषां जात्युत्तराणां निराकरणहेतुमाह ।
निमित्तान्तरात् संज्ञान्तर योज्यमानेऽर्थे तथाभावस्य निरा. कतमशक्यत्वादिति ॥
निमित्तान्तरादृष्टान्तादिकपात् । संज्ञान्तरे नित्यत्वादिरूपे । योज्यमाने परेणापाद्यमाने अर्थे । तथा भावस्य शब्दस्वाभाविकानित्यत्वादेः प्रतिक्षेप्नुमक्षमत्वादन्यान्यपि जात्युत्तराणि निरा. क्तानि । कोऽर्थः । यानि कानिचिज्जात्युत्तराणि तानि किञ्चिमाधादिनिमित्तमादृत्य नित्यत्वादौ यत्र तत्रोद्भाव्यन्ते । तानि च न सत्यानि न च तैर्वस्तुस्वभाव भक्त प्रभूयते । ततो वस्तु स्वभावसामर्थ्य अबलम्बधान्यान्यप्यसदुत्तराणि निराकर्तव्यानि ॥ २०३ ॥ ननु सर्वाणि जात्युत्तराणि कुतो नोक्तानीत्याह । ___ अानन्यान सर्वाणि जात्युत्तराण्युदाहत्तुं शक्यन्त इति ॥
वाचो युक्तीनामानन्त्याज्जातीनामानन्त्यं ज्ञेयम् । शेष सुगमम् ॥ २०४ ॥
ननु यद्यनन्तानि जात्युत्तराणि कथं तहि सूत्रकता चतुविंशतिसंख्यया नियमितानीत्याह ।
Aho! Shrutgyanam