________________
अनुमानपरिच्छेदः ।
१९१ सूचाणामन्यदाहरणार्थत्वादिति ॥ सूत्रकृता चतुर्विशतिर्जातय इति यदुक्तं तज्जात्युदाहरण. मख्यानार्थम्। न पुनर्जातिसंख्यार्थम् । कथमेतदवसीयत इति चेत् । स्थलान्तरेऽनन्यसमादीनां जातीनां लक्षणोदाहरण निरीक्षग्णात् ॥ २०५ ॥ उपसंहरति ।
उता जातिभेदा इति ॥ २०६ ॥ अथ निग्रहस्थानान्याह ।
अधेदानों निग्रहस्थानान्युच्यन्ते। तान्यपि विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पादसंख्यानीत्यत: संक्षेपतो व्युत्पाद्यन्ते इति ॥
अथ जातिकथनानन्तरं निग्रहस्थानान्युच्यन्त इति संटङ्गः । तानि च निग्रहस्थानानि विप्रतिपत्तेविरुद्धज्ञानस्य विपरीतज्ञानस्य वा अप्रतिपत्तेरन्नानस्य च वैचित्राादसंख्यातानि भवन्त्यत: समासात् कतिपयानि लक्षणोदाहरणाभ्यां प्ररूपयिष्यन्तेऽत्र ॥ २०७॥ तत्र प्राक् प्रतिज्ञाहानि लक्षयति ।
साध्ये प्रतिदृष्टान्तधर्मानुज्ञा प्रतिज्ञाहानिरिति ॥ प्रतिज्ञासिद्धये वादिना साधनेऽभिहिते प्रतिवादिना च तत्र दूषण प्रोक्त तीये वचसि वर्तमानो वादी यदि खसाध्ये प्रतिपक्षदृष्टान्तधम्ममनुजानाति । तदाऽस्य प्रतिज्ञाहानिभवति ॥ २०८॥ एतामुदाहरति ।
Aho! Shrutgyanam