________________
अनुमानपरिच्छेदः ।
२८७
किञ्च निषेधक प्रमाणे नोपलभ्यं नास्तीत्यवधार्यते । न चानुपलब्धिः स्वस्मिन्निषेधक प्रमाणम्। तथाच स्वविषये सामर्थ्य सति खात्मनिषेधत्वमामर्थेऽपि न काचित् क्षतिः ॥ १८६ ॥ -'अमुमेवा) ममर्थयते ।
नास्तीति ज्ञानमनुपलब्धिः। सा तत्म्वभावतया प्रत्याकावेद्या। तदनुपलब्धिरसिद्दे त्यभिप्राय इति ॥ ___ भो जातिवादिन् अनुपलब्धिः स्वात्मनि वर्तते न वेति यदिक पदयं पर्यकल्पि तदत्यल्पम् । यतो नास्तीति ज्ञानमभावरूपो बोधोऽनुपलब्धिः । सा चानुपलब्धिः तत्स्वभावतया नास्तीति रूपतया प्रत्यात्मवेद्या प्रतिप्राणिजेया। न पुनः सा स्वस्मिन् घर्तित्वा स्वस्था एव विनाशिका। येन तस्याः स्वरूपमेव न स्यात् । ततो यथोपलश्चिर्विधिमुखेन तथानुपलचिनिषेधमुखेन विद्यत इति अनुपलब्धिरसिडेव ।
कि दमस्मडे तुप्रतिषेधकं भवदच: स्वस्मिन् वर्तते न वा । वर्त्तते चेत्तहि यत्र विषये प्रतिषेधकवचस्तस्य यथा प्रतिषेध. स्तथा स्वात्मनोऽपि प्रतिषेधः। ततो हेतुप्रतिषेधकवचःप्रतिषेधे हेतुसिद्धिः सुस्थैव । न वर्त्तते चेत्तदा स्वरूपमपि प्रतिषेधकवचसो नास्तीति हेतुमिद्धिस्तदवस्था ॥ १८७ ॥ नित्यसमां जातिमाह। नित्यमनित्यभावादनित्ये नित्यत्वोपपत्ते नित्यत्वमम इति ॥
नित्यमनियभावात् सर्वदाऽनित्यत्वाख्यधम्मास्तित्वादमित्यत्व. योगादनित्ये शन्दे नित्यत्वोपपत्तनित्यत्वेन प्रत्यवस्थानं नित्यसमा
Aho! Shrutgyanam