________________
न्यायतात्पर्यदीपिका।
चेत्तानुपलब्धिस्वरूपेणापि नास्ति । तथाप्यनुपलब्धेरभाव उपलब्धिरूपस्ततोऽपि बुधादिकार्यस्य प्रागूईमप्यस्तित्वं स्यात् इति ॥ १८४ ॥ अमुमेवा, मनसिकृत्य सूत्रं व्याचष्टे ।
*तस्य बुयादि कार्यस्यानुपलब्धेरनुपलम्भादभावसिद्धौ अनुपलब्धेविपरीतोपलचापपत्तेः। प्रागूर्द्धमपि बुबादेः सद्भावः सेत्स्यतीत्यभिप्राय इति ॥
मूत्रव्याख्यानादिदं व्याख्यातग्रायम् । अनुपलब्धेरनुपलब्धिरुपलम्भरूपो भवन् प्राक् पश्चाच्च बुद्धयादिकमस्तीति व्यनक्ति । ततो बद्यादेः कार्यत्वसाधको हेतुरसिद्ध इत्यर्थः ॥ १८५ ॥ एतदुत्तरमाह।
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुरिति ॥ अनुपलब्धेरनुपलम्भात्मकत्वान्नास्तित्वरूपवेद्यत्वादियं बुद्याद्यनुपलब्धेरभावसाधिकानुपलचिरहेतुबादः कार्यत्वनिषेध हेतुर्न भवति । अयं भावः। अनुपलब्धिरनुपलम्भात्मिका न च तस्या अनुपलब्धेः स्वरूपमेव विषयः । यद्यनुपलब्धेः स्वरूपमघि विषयः स्यात्तर्हि यतार्थेऽनुपलब्धिस्तस्य यथाऽसत्त्वं तथानुलब्धेरपि स्वरूपनाशादसत्त्वं स्थान च तयास्ति किन्तु वस्त्वनुपलम्भ विषया। ततो बुद्धयादेः कार्यत्वनिषेधेऽसौ हेतुर्न भवति ।
* The reading adopted loy the counyentacor here: differs somewhat from the text (See page 22, Line 3-+).
Aho! Shrutgyanam