________________
अनुमानपरिच्छेदः ।
१७८ अनुत्पन्नः शब्द एव नास्ति कस्य नित्यत्वादिधर्मशिन्यते इति ॥
नन्वनित्यत्वं नाम शब्दस्य धर्मः स च शब्दे सति सम्भवति । तान्यथा। शब्दश्वोत्पन्न एव भवत्यत उत्पत्तेः प्रागनुत्पन्नः शब्द एव नास्ति । नित्यत्वादिधम्मः कस्य चिन्त्यत । धर्मिणं विना धर्मास्यासम्भवात् । किञ्च । हेतूपन्यासात् प्राक् प्रसङ्गस्योत्पत्तेः कारणाभावादस्याप्यनुत्पत्तिरेव । तथाहि हेतूत्यत्तेः प्राक प्रसङ्गो नास्त्येव हेतावुत्पन्ने तु तस्योत्पत्तिरनुपपन्न वति ॥ १८ ॥ अहेतुममा जातिमाह।
काल्यासिद्धेहेंतोरहेतुसम इति ॥ हेतोः साधनस्य त्रैकाल्यै वृत्ते वय॑ति वर्तमाने छ काले सिद्धेरनुपपत्तत्वभावेन प्रत्यवस्थानमहेतुसमा जातिभवति ॥ १८० ॥ एतदेव विवृणोति ।
यदि पूर्व साधनमसति साध्ये कस्य साधनमथ पश्चादविद्यमानं कथं माधनमथ युगपत्तथापि किं कस्य साधनं साध्यं वा हयोमतुल्य कालत्वादिति ॥
मम्यक् साधने प्रयुक्त दूषगमपश्यन् जातिवाद्याह । साधनं साध्यात् पूर्व मुत पश्चादथ युगपति । यदि पूर्वमिति साध्याप्राक । अविद्यमानमिति साध्यकाले इति शेषः । योरिति यो: साध्यसाधनयोरेकीभूतयोः सतो: सह्यविन्ध्ययोरिव साध्यसाधमभावा. सम्भव इत्यर्थः ॥ १८१ ॥
Aho! Shrutgyanam