SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ न्यायतात्पय्य दीपिका । * अनित्यः शब्दः कार्य्यत्वादित्युक्ते प्रागुत्पत्तेरनित्यत्वे कारणं नास्तीति नित्यः प्रसक्तस्तस्योत्पत्तिरनुपपन्नेति ॥ १७८ शब्दोऽनित्यः कार्य्यत्वादिति वादिना प्रोक्ते जातिवादी प्रत्यवतिष्ठते । शब्दो यद्यनित्यः तर्हि शब्दोत्पत्तेः प्रागनित्यत्वे किमपि कारणमस्ति नो वा । न तावदस्तीति वक्तुं शक्यमनित्यत्वं प्रत्युत्पत्तेरेव कारणत्वादुत्पत्तेः प्राक विचार्यमाणत्वात् । नास्तीति चेत्तह्यनित्यत्वे कारणस्य काय्र्यत्वरूपस्याभावात् शब्दो नित्यः प्रसजति । ननुत्पन्नः सन् शब्दोऽनित्यो भविष्यतीत्याह । तस्य शब्दस्योत्पत्तिरयुक्तैव नित्यत्वात् ॥ २७७ ॥ एतद्दोषपरिजिहीर्षया प्राह । तथाभावादुत्पन्नस्य शब्दस्य कारणोपपत्तेरप्रतिषेध इति ॥ तथाभावादनित्यभावादुत्पन्नस्य शब्दस्य कारणमनित्यत्वसाधको हेतुरथादुत्पत्तिस्तद्दटनातोऽयं प्रसङ्गो न भवति । कोऽर्थः । शब्दः समुत्पद्यमानोऽनित्यत्वेनैवोत्पद्यते । ततोऽनित्यो भवत्येव । कश्चिदिमं ग्रन्थमन्यथा योजयति । उत्पन्नस्य शब्दस्य तथाभावादुत्पत्तिसद्भावात् कारणापपत्तेरनित्यत्वसाधक हेतूपपत्तेरयं प्रतिषेधो न भवतीति ॥ १७८ ॥ I ननु तथापि उत्पत्तेः प्राक् शब्दस्यानित्यत्वे न कश्चिदेतुरस्तौति । शब्दो नित्य एवेत्याशङ्कयाह । तस्येति । * The text reads arg: instead of agaà; and guetufa instead of “प्रसक्तस्तस्योत्पत्तिः" [ Soe page 20. Lines 8-9 ]. Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy