________________
अनुमानपरिच्छेदः ।
१७७ *प्राप्तप्राप्त विशेषेऽपि प्रतिनियतार्थतत्तय एवैत साध्यसाधन त्वादयो धम्मा दृष्टास्ते निराकर्त्तमशक्या: । सर्वप्रमाणविरोधादिति
यद्यपि के चन हेतवः प्राप्य साधका: केचिदप्राप्य तथाप्यमी साध्यसाधनत्वादयो वह्निमत्त्वधूमवत्त्वादयो धर्मा: प्रतिनियतार्थवृत्तयो निश्चितस्वाश्रयव्यापारा दृष्टा यथा धूमवत्त्व सत्येव वह्निमत्त्वं कृतकत्वे सत्सवानित्यत्वं वा ते च ताक्षाः प्रतिक्षप्तुं न क्षम्यन्ते । सर्वेषां प्रत्यक्षादिप्रमाणानां विरोधात्। प्रत्यक्षादिप्रमाणेहि हेतुः कोऽपि माध्यं प्राप्य कोऽप्यप्राप्य साधको दृष्टः। ततो योकान्तोऽभ्युपगम्यते तदा प्रत्यक्षादिविरोधी भवत्येव । दृष्टापलापश्च । किं चायं प्रतिषेधो हेतुं प्राप्याप्राप्य वा प्रतिषेधयति । यदि प्राप्य तर्हि इयोरे कीभूतयोः किं कस्य प्रतिषेध्यं प्रतिषेधकञ्च स्यादविशिष्टत्वात् । अथाप्राप्य तहि अप्राप्यसाधको नास्तीति कथमयं प्रतिषेधस्तावको भवति ॥ १७५ ॥ अनुत्पत्तिसमां लक्षयति ।
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसम इति ॥ शब्दस्योत्यत्तेः प्रागनित्यत्वे कारणाभावात् तस्य चोत्पत्त्ययोगादनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिभवति ॥ १७६ । अस्येव सूत्रस्य सोदाहरण विवरणमाह ।
* 'The text reaks "प्राप्तसमातिविशेषेपि' (See nagc 20. Lines).
२३
Aho! Shrutgyanam