________________
१७६
न्यायतात्पर्य दीपिका।
हेतुः प्राप्य माध्यं साधयत्य प्राप्य वेति पक्षद्वयम् । तत्राद्यं पक्षं व्याख्याति यद्ययं हेतुरित्यादिना । उभयोरिति साध्यसाधनयोः । प्राप्ति: संयोगरूपा तयाऽविशिष्टत्वं योरे कोभावेन तुल्यत्वं तस्मात् । अङ्गल्योरिवेति यथाङ्गल्योरकत्रमिलितयोः माध्यसाधनभावो न स्यात्तथा साध्यहेत्वोरपौत्यर्थः ।
हितीयं पक्षं व्याख्याति । अप्राप्येत्यादिना। अयं भावः । यदि प्राप्तिपक्षोऽभ्युपगम्यते तदा न साध्यसाधनभावो योरगुल्योरिवैकत्र मिलितत्वात् । अथाप्राप्तिपक्षस्तथापि न साध्य - साधनभावो वह्नयादीनां काष्ठादि प्राप्यैव दाहकत्वादिदर्शना. दिति ॥ १७३ ॥ अनयोः परिहारमाह।
घटादिनिष्यत्तिदर्शनात् पोड़ने चाभिचारादपतिषेध इति ॥
प्राक् प्राप्तिपक्षदोषं परिहरति घटादीत्यादिना। प्रासाविशेषेऽपि चक्रचीवरादयो मृत्पिण्डं प्राप्यैव घटादिकमुत्यादयन्तो दशिर नाप्राप्य । घटादौत्यत्रादिशब्दाहीपादिग्रहस्तेषामपि घटादिकं प्राप्यैव प्रकाशकत्वात् । अप्राप्तिपक्षदोषं प्रतिक्षिपति । पौड़नेत्यादि। अभिचारादिकम्माप्राप्यापि दविष्ठं दुष्टं पौड़यत् दृश्यते । ततो नायं प्रसङ्गः। अयं भावः । नायमेकान्तो यत् हेतुः प्राप्यैव साध्यमप्राप्यैव वा साधय तौति किन्तु दीपादिक किञ्चित्प्राप्य काम्मेणादिकमप्राप्य च साध्यं साधयति । ततस्त्वदुलो प्रसङ्गो न स्याताम् ॥ १७४ ॥ अस्यैवोत्तरसूत्रस्य रहस्यमाह ।
Aho! Shrutgyanam