________________
१०२
न्याय तात्प यदीपिका।
नीयः साध्यम्भिधम्मस्त द्विपर्ययादवमर्को दृष्टान्तधर्मास्तयोवावसांप्रयोः परस्परसमीकरणे न प्रत्यवस्थानं वावर्णयसमे जाती। धर्मान्तरविकल्येन प्रत्यवस्थानं विकल्पसमा। साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यममा ॥ १६४ ॥ अथेदमेव सूत्रं विवरीतुमेकैक मूत्रलक्षणमाह ।
माध्ये दृष्टान्तादनिष्टधम्मप्रसङ्ग उत्कर्षसम इष्टधमनिवृत्तिरपकर्षसम इति ॥
साध्ये धम्मिणि अनिष्टस्य वाद्यनभिप्रेतस्य धर्मस्य दृष्टान्ताद्यत्प्रसन्ननं सोत्कर्षसमा जातिभवति। तथा दृष्टान्तात् साध्ये या इष्टस्य सिद्धस्य धम्मस्य निवृत्तिः सा अपकर्षसमा भवति ॥ १६५ ॥ एते उदाहरति ।
यदि कतकत्वाद् घटवदनित्यः शब्दः तदा घटवदेव सावयवः स्थादथ नैवमनित्योऽपि तर्हि न स्यादविशेषात् । अशावणाश्च घटो दृष्टः शब्दोऽपि श्रावणो न स्यादविशेषादिति ॥
अक्षरार्थः सुबोधः । भावार्थस्त्वयम् । घटः सावयवः शब्दस्तु निरवयवः ततो घटे यत् सावयवत्वं तच्छन्देऽनिष्टं तस्मिंश्च तत्रारोप्यमाणे उत्कर्षसमा जातिः। तथा अश्रावणात् घटात् शब्दस्य श्रावण त्वेऽपवष्यमाणे ऽपकर्षसमा जातिभवति ॥ १६६ ॥ वर्यावर्सयसमे उदाहरति ।
* The reading alopted in the commentator here «liffers somewhat from the text ( See page 18, Line 14-17 ).
Aho! Shrutgyanam