________________
न्यायतात्पय्यदीपिका ।
घटवदनित्यः शब्दोऽभिलष्यते तमूर्त्तत्वादाकाशवत्रित्यः स्यात् । तथाहि शब्दो नित्योऽमूर्त्तत्खादाकाशवदिति । न चात्र विशेष: कविद्येन घटसाधर्म्यात् कृतकत्वादनित्यः शब्दो न पुनराकाशसाधर्म्यादमूर्त्तत्वानित्य इति । एष साधर्म्यसमः प्रतिषेधः । यदि च नित्येत्यादि-साधर्म्येण प्रतिषेधे कृतं वादिनाऽनित्यः शब्द: कृतकत्वात् यत् पुनर्नित्यं तदक्कतकं दृष्टं यथाकाशमिति वैधम्र्म्येण साधने प्रयुक्ते च वैधर्म्येण परः प्रत्यवतिष्ठते । यदि त्वया शब्दो नित्याकाशवैधर्म्यात् कृतकत्वादनित्योऽभिप्रेयते तर्हि घटाद्यनित्यवैधर्म्यादमूर्त्तत्वात्रित्यः स्यात् । तथाहि नित्यः शब्दोमूर्त्तत्वाद्यत् पुनरनित्यं तन्मूत्तें दृष्टं यथा घट इति । चात्रापि कश्चिद्दिशेषो येन नित्याकाशवैधर्म्यात् कृतकत्वादनित्यः शब्दो न पुनर्घटाद्यनित्य वैधर्म्यादमूर्त्तत्वान्नित्य इति । एष वैधर्म्य - समः प्रतिषेधः | कश्चित्तु साधर्म्यसमे वैधर्म्यसमे च प्रत्येकं साधवेधस्याभ्यां प्रतिषेधमिच्छति ॥ १६२ ॥
। न
अनयोरुत्तरमुत्तरङ्गयति ।
१००
अनयोरुत्तरमविनाभाविनः साधर्म्यस्य वैधर्म्यस्य च हेतुत्वाभ्युपगमादप्रसङ्गो धूमादिवदिति ॥
भी जातिवादिन्न खलु साधर्म्यमात्राद् वैधर्म्यमानादा साध्यसिद्धिर्भवति । किं त्वविनाभाविनः साधर्म्याधर्म्याच्च । अत्र यत् कृतकत्वं हेतुत्वेन विवचितं तदनित्यत्वेनाविनाभूतमेव । न हि कश्चिदर्थस्त्रिजगत्यपि सोऽस्ति यः कृतकः सन्नानित्यः । ततो यः कृतकः सोऽनित्य एव । यः पुनर्नानित्यः स कृतक एव नास्ती
Aho ! Shrutgyanam