________________
१६८
न्यायतात्पर्य्यदीपिका। स्यात्तत्रिहत्त्यर्थं पराजयेति पदम् । येन परः पराजीयते तन्निग्रहस्थानमित्यर्थः ॥ १५८ ॥
अथानयोरशेषविशेषाभिधाने सामर्थाभावात् कतिपये भेदा भण्यन्त इत्याह ।
बहवश्वानयोः सूक्ष्मा भेदास्तेषां कियन्तो भेदा लक्षणोदा. हरणाभ्यां प्रदर्श्यन्त इति ॥
जातिनिग्रहस्थानयोरानन्त्यात् सर्व भेदा वक्तुं न शक्यन्ते । ततः सूत्रोक्ता एव चतुर्विंशतिजातिभेदा हाविंशतिनिग्रहस्थानभेदाथ लक्षयिष्यन्ते उदाहरिष्यन्ते च । __ तत्र जातिसूत्रमेतत् । साधर्म्य १ वैधर्यो २ कर्ष ३ अपकर्ष ४ वण्ये ५ अवर्ण्य ६ विकल्प ७ साध्य ८ प्राप्ति । अप्राप्ति १० प्रसङ्ग ११ प्रतिदृष्टान्त १२ अनुत्पत्ति १३ संशय १४ प्रकरण १५ अहेतु १६ अर्यापत्ति १७ अविशेष १८ उपपत्ति १८ उपलब्धि २० अनुपलब्धि २१ नित्य २२ अनित्य २३ कार्य-- समाः २४ ।
निग्रहस्थानसूत्रञ्चेदम् । प्रतिज्ञाहानि १ प्रतिज्ञान्तर २ प्रतिज्ञाविरोध ३ प्रतिज्ञासंन्यास ४ हेवन्तर ५ अर्थान्तर ६ निरर्थक ७ अविज्ञातार्थ ८ अपार्थक 2 अप्राप्तकाल १० न्यून ११ अधिक १२ पुनरुक्त १३ अननुभाषण १४ अज्ञान १५ अप्रतिभा १६ विक्षेप १७ मतानुज्ञा १८ पर्यनुयोज्योपेक्षण १८ निरनुयोज्यानु योग. २० अपमिद्धान्त २१ हेत्वाभासा २२ निग्रहस्थानानि ।।
तत्राननुभाषणा १ ज्ञाना २ प्रतिभा ३ विक्षेप ४ पर्यनु
Aho! Shrutgyanam