________________
अनुमानपरिच्छेदः ।
अथ क्रमप्राप्त जातिलक्षणं प्रकटयति ।
प्रयुक्त हेतौ समीकरणाभिप्रायेण प्रसङ्गो जातिरिति ॥ वादिना हेती साधने प्रयुक्तो युक्त्या व्यवस्थापित सति समीकरणाभिप्रायेण परेण सहात्मन: साम्यापादनसंकल्पेन यः प्रसङ्गः प्रतिषेधोऽनिष्ठापादनं वा सा जातिभवति । प्रसङ्गो जातिरित्युत प्रत्यक्षाभासादावपि प्रसङ्गोऽस्ति न चासौ जातिस्ततो व्यावृत्त्यथें प्रयुक्त हेताविति पदम् । प्रत्यक्षाभासादौ न खलु हेतो प्रयुक्ते प्रसङ्गो भवति । तथाप्यसिद्धत्वादिप्रसङ्गः प्रयुक्त हेती भवतीति तत्परिहत्त्यै समीकरणाभिप्रायेणति पदम् । असिद्धत्वाद्यापादनं हि परपक्षप्रतिक्षेपाय न पुन: स्वपक्षस्य परपक्षेण सह समीकरणाय । इदं तु जातेलक्षणं प्रायिकं प्राप्ताप्राप्तपादिजातिष्वभावात् । व्यापकं लक्षणन्विदं हेतुप्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जाति:। तथाच मूल मूत्रं साधयंवैधाभ्यां प्रत्यवस्थानं जातिः। वादिना हेतौ व्यवस्थापिते सति साधर्म्यण वैधम्र्येण वा यत् प्रतिकूलमवस्थानं सा जातिरित्यर्थः ॥ १५८ ॥ निग्रहस्थानं लक्षयति ।
पराजयनिमित्तं निग्रहस्थानमिति ॥ पराजयो हारिस्तस्य निमित्तं यदर्थाद्विप्रतिपत्तिरप्रतिपत्तिर्वा तन्निग्रहस्थानं भवति। तथाच सूत्रम् । विप्रतिपत्तिरप्रति. पत्तिश्च निग्रहस्थानम् । विरुड्डा कुत्मिता वा प्रतिपत्तिविप्रतिपत्तिस्तत्त्वप्रतिपत्तेरभावोऽप्रतिपत्तिरिति । सकलनिग्रहस्थानानां सामान्य लक्षणमिदम्। निमित्तं निग्रहस्थानमित्युक्त किमपेक्षा
Aho! Shrutgyanam