________________
न्यायतात्पर्यदीपिका। यथा वृक्षशब्दस्य शाखादिमानर्थस्तत्कल्पनया तदवतारेण उपचार प्रयोगस्य यः प्रतिषेधः स उपचारच्छल भवति । अर्थ कल्पनया प्रतिषेध उपचारच्छलमित्युक्ते वाकच्छलादावतिव्याप्तिस्तत्परिहृत्त्यै मुख्येति पदम् । मुख्यार्थ कल्पना च गौणप्रयोग विना न भवतीति उपचार प्रयोग इति पदम् ॥ १५५ ॥ तन्निदर्शयति ।
*मञ्चाः क्रोशन्तीत्युक्ते छलवाद्याह पुरुषा: क्रोशन्ति न मञ्चास्तेषामचेतनत्वादिति ॥
क्षेत्रे धान्यरक्षणार्थ काष्ठघटिताश्चतुःस्तम्भरूपा मञ्चाः । कोशन्तीति शब्दायन्ते। शेषं सुगमम् ॥ १५६ ॥ छलवादिनो दूषणं वक्ति ।
पतस्यापि निग्रहस्थानं पूर्ववत् । उभयथापि लोके शास्त्रे च शब्दप्रयोगदर्शनादिति ॥
तस्योपचारच्छन्नवादिनः पूर्ववत्पराभिप्रायापरिज्ञानादुत्तरा. परिज्ञानाविपरीतज्ञानाडा विप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यं भवति। अत्र हेतुः उभयर्थत्यादि। मुख्यार्थतया खुरक कुदसानादिमति गोशब्दवत् । लक्षणया चायुधुतमिव प्रकारहयेम लोके श्रुते च शब्दे प्रवृत्तिदर्शनाल्लक्षणाप्रयोग मुख्यार्थेन निषेधों न युक्त इत्यर्थः ॥ १५७ ।।
* The word "यथा' is alled theitute this in the test (See p. 17. Ji 1() ).
t Tie roding loptul ly the crimementistar livre differs some. what from the test i ser pilge 17. luc 12 ).
Aho! Shrutgyanam