________________
अनुमानपरिच्छेदः ।
ब्राह्मणे चतुर्वेदाभिन्नत्वं भवतीत्यतिव्यापकसामान्ययोगात्संभावितं पुरोवत्तिहिजे चतुर्वेदाभिन्नत्वं ब्रात्येऽसद्भावकल्पनया व्याहतमिति सामान्यच्छलमिदम् ॥ १५३ ॥ - परिहरति ।
तस्थापि पूर्ववन्निग्रहस्थानं वाच्यम् । कस्माद्धेतुत्वस्याविवक्षितलात् । किं तर्हि ब्राह्मणत्वे मति चतुर्वेदाभिन्नत्वमाश्चर्यकारणं न भवतीत्यभिप्रेतं सुनेत्रे शालिसम्पत्तिवदितीति ॥
तस्येति सामान्यच्छलवादिनः । न केवलं वाक्च्छलवादिन इथपरयः । पूर्ववदिति । वक्त्रभिप्रायापरिज्ञानादुत्तरापरिज्ञानाहा अप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यम् । कस्मादिति शिष्यप्रश्नः । हेतुत्वस्येति । यदि ब्राह्मणत्वं चतुर्वेदाभिनत्वे हेतुलेनोपन्यस्तं भवेत्तदानकान्तिकतोद्भावयितुं न्याय्या स्थानान्यथा । तर्हि ब्राह्मणावं किं विवक्षितमित्याह। किं तौति । सम्भावनापूर्वक: प्रशंसावादोऽयमिति भावः । शालिदृष्टान्तः सुबोध एव ॥ १५४ ॥ उपचारच्छलमाह।
उपचारप्रयोग मुख्यार्थकल्पनया प्रतिषेध उपचारच्छलमिति ॥ __वाहीको गौरग्निर्माणवक इत्यादि लक्षणाप्रयोग उपचारः । तदुक्तं
मुख्यार्थबाध तद्योग रूढितोऽर्थप्रयोजनात् । अन्योऽर्यो लक्ष्यते यत् सा लक्षणारोपिता क्रियेति ॥ तत्प्रयोग मति यस्य वनेयः साक्षाहाच्यः स तस्य मुख्यो
Aho! Shrutgyanam