________________
१६४
न्यायतात्पय्यैदीपिका ।
समुच्चये । विपरीतज्ञानादिति पदं विप्रतिपत्तेरित्यस्यैव विवरण
रूपम् ॥ १५१ ॥
सामान्यच्छलमाह ।
संभवतोऽर्थस्थातिसामान्ययोगादसद्भूतार्थकल्पना सामान्य
उच्छलमिति ॥
अति व्यापकं सामान्य मतिसामान्यं तद्योगात् कचिदाक्तावर्धस्य कस्यचित् सम्भवतो व्यक्त्यन्तरेऽसंभाव्यमान निष्पत्तेर्वक्लामिहितस्य सतो यदसद्भूतार्थकल्पनया प्रत्यवस्थानं तत्सामान्यच्छलं भवति । वाक्च्छ संऽतिव्याप्तिनिषेधार्थमसद्धतेति विशे
-
षणम् ॥ १५२ ॥ एतदुदाहरति ।
अहो नु खल्वयं ब्राह्मणञ्चतुर्वेदाभिज्ञ इत्युक्त केनचित् न्यायवाद्याह । किमत्राश्रयं संभवति खलु ब्राह्मणे चतुर्वेदाभिज्ञत्वमिति । अत्र च्छलवाद्याह । न । व्रात्येनानैकान्तिकत्वादिति ॥
व्रात्येनेति । व्रात्यः संस्कारवर्जितो द्विजस्तेनानैकान्ताद्यभिचारात् । शेषोऽक्षराथैः सुगमः । भावार्थत्वेवम् । चतुर्वेदाभिज्ञत्वं प्रति ब्राह्मणत्वं न्यायवादिना साधनं विवक्षितमिति मत्वा कूल वादी अनेकान्तिकतासुद्भावयति । व्रात्ये ब्राह्मणत्वे सत्यपि चतुवेदाभिज्ञत्वाभावात् त्वदुक्तोऽयं हेतुरनेकान्तिक इति । अयमिति निर्दिष्टपत्रेऽन्यस्मिन् ब्राह्मणवृन्दे सपने व्रात्ये विपक्षे च ब्राह्मत्वहेतोर्गतत्वात् । पचचयवृत्तेरनैकान्तिकत्वाच्च । यस्मिन् कस्मिंश्रि
Aho ! Shrutgyanam