SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १६३ *नवकम्बलोऽयं माणवक इति उक्त छलवाद्याह। कुतोऽस्य नवकम्बला इति ॥ ____ अयं माणवको बटुर्नवकम्बल इति वाद्युक्ते वाक्ये नवः कम्बलोऽस्य नव कम्बला अस्येति च समासपदमर्थहयेऽप्यविशिष्टं तत्राभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नं च परिज्ञाय नवसंख्यासंबन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते । कुतोऽस्य नवसंख्य का: कम्बला इति । इत्थं ब्रुवारणेन चानेन वाक्छलमुद्भावितं भवति ॥ १४८ ।। परिहरति । तस्याप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यम् । नवः कम्बलीऽस्येति वक्तरभिप्रायापरिज्ञानादिति ॥ कुतोऽस्य नवकम्बला इति यो वाक्च्छ लमुदबीभवत्तस्य अप्रतिपत्तिरित्यज्ञानलक्षणं निग्रहस्थानं कथ्यम् । नवः कम्बल इति वक्तगशयानवबोधादिति ॥ १५० ॥ निग्रहस्थानदान हेत्वन्तरमाह । उत्तरापरिज्ञानाहा विप्रतिपत्तेर्वा विपरीतनानादिति । वादिप्रतिपादितस्य वाक्यस्योत्तरानवगमात् प्रागुक्तमप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यम् । यहा वाद्युक्तस्य विप्रतिपत्ते. विपरीतज्ञानानिग्रहस्थानं वाच्यम् । वाकारौ प्रागुतानिग्रहहेत. * The woril "TT" iš vidled lefuse this in the text (Sec paye a G. I.ine 11 ) Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy