SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६२ न्यायतात्पर्य दीपिका I तमामान्यलक्षणलक्षितं कुलं वाक्क्कलादिमेदेन त्रिधा भवति तत्र वानिमित्तमस्येति वाक्छलम् । एवं सामान्यच्छलादावपि विग्रहश्चिन्त्यः | ननु यथा वाक्क्कलं वाग्निमित्तं तथेतरदपि च्छलद्दयं वाग्निमित्तमस्तीति तदपि तथैवोच्यतामिति चेत् । सत्यं परं तत्र सामान्योपचारयोः प्रधानत्वेन ताभ्यामेव व्यपदेशो न वाचा | व्यपदेशस्य प्रधान मूलत्वादिति ॥ १४७ ॥ पदम् ॥ १४८ ॥ उदाहरति । तत्र वाक्कलमाह । यथा अविशेषाभिहितायें वक्तुरभिप्रायापरिज्ञानादर्थान्तरकल्पना वाक्छलमिति ॥ अनेकार्थवाचकं पदं वाक्यं वा अविशेषस्तस्यार्थाभिधानाय प्रयोगोऽप्युपचारादविशेषः । यदा यस्य पदस्य वाक्यस्य वा एकतरार्था निर्धारणेन यत्प्रतिपादनं सोऽविशेषस्तेनार्थेऽभिष्ठितं सति । वक्तुरभिप्रायो विवचितः कश्विदेकोऽर्थः । तदनवबोधाद्यान्यार्थरचना सा वाकुच्छलं भवति । अर्थान्तरकल्पना वाक्च्छलमित्युक्ते परोक्तार्थपरिज्ञानादनु यार्थान्तरकल्पना सापि वाक्च्छलं स्यात्तनिवृत्त्यर्थं वक्तुरभिप्रायापरिज्ञानादिति पदम् । निर्द्धायप्रतिपादितेऽर्थेऽतिव्याप्तिनिषेधार्थं अविशेषाभिहित इतिं * The text roads “वक्तरभिप्रायादर्थान्तर" [ see p. 10. I. 43 ]. Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy