SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । वितण्डिके न साधनं वक्ति नवरं परपक्षप्रतिषेधायैव प्रवर्तत इति तत्कथा वितण्डा भवति । ___कश्चित् स इत्यनेन वादं परामृति । तत: प्रतिपक्षः स्वपक्षः स्थाप्यते येन तत्प्रतिपक्षस्थापनं प्रमाणं तेन आ समन्तात् हीनो वादो बितण्डा भवतीत्येवं व्याचष्टे च ।। ततो वितण्डायां प्रतिपक्षस्थापनाहीने ति लक्षणस्य तं प्रति. पक्षहीनमपि वा कुर्यादिति वीतरागकथालक्ष गणस्य च मिथः संवादाहीतरागकथायामपि वितण्डा प्रतिपत्तव्येति यत् केनाप्युक्त तदयुक्तम् । वीतरागकथायां वितण्डाश्रयणे तत्त्वनिर्मीत्यभावापत्तिस्तदर्थमेव तदारम्भादिति ॥ १४५ ॥ ____ अलक्षितानि छलादीनि प्रयोक्तुं भक्त वा न शक्यन्त इति प्राक् छन्नं लक्ष्यति। वचनविघातोऽर्थविकल्पोपपत्त्या छन्न मिति ॥ छल्यते परोऽनेनेति छलम् । किं तदित्याह। वचनविघातः परप्रयुक्त वचःखण्डनम् । कयार्थस्य वाच्यस्य विरुद्धत्वेन विकल्पनमर्थविकल्पम्त हटनया उल्लण्ठतया । वचनव्याघातेऽतिव्याप्तिनिषेधार्थ विकल्पोपपत्त्येति पदम् । अयमर्थः । वचनविघातो न मुखपिधानेनापित्वर्थविकल्पोपपत्त्या । वक्तुरनभिप्रेतमथं तदुक्त वचस्यारोप्य छलवादी यत्त निषेधं करोति तच्छ लं भवति ॥ १४६ ॥ इत्थं मामान्यन च्छलं लक्षयित्वा तहिमजते । तत् त्रिविधं वाकछलं सामान्यच्छलमुपचारच्छल चेति ॥ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy