SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ न्यायतात्पर्य्यदीपिका । वयवोपपन्न्र इत्युत्तरपदद्वयस्य निग्रहस्थाननियम निबन्धनस्यात्त्राभि. संबन्धासम्भवात् जल्पे समग्रनिग्रहस्थानानां सम्भवाच्च । ननु कलजातिनिग्रहस्थानसाधनोपालम्भ इत्ययुक्तं कलादोनामसदुत्तरत्वेन साधनदूषणानुपपत्तेः । तदयुक्तं प्रमाणे: क्रियभाणयोः साधनोपालम्भयोः छलादीनामङ्गभावो रक्षणार्थत्वान स्वतन्त्राणां साधनदूषणभावः । न हि तानि स्वयं साधनत्वेन दूषणत्वेन वा प्रयुज्यन्ते । किन्तु सम्यक् साधने प्रयुक्ते । परश्छलजात्यादिना प्रत्यवतिष्ठमानश्छलं जातिर्निग्रहस्थानं वा त्वया प्रयुक्तमित्येवं तदुद्भावनहारेण निरस्यति । निरस्ते च तस्मिन् स्वपचः परिरक्षितो भवति । परेण वा साधने प्रयुक्ते सहसा दोषमपश्यन् स्वयं जात्यादिना प्रत्यवतिष्ठते । याकुलितश्च प्रतिवाद्युत्तरमप्रतिपद्यमानो जीयते । जिते तस्मिन प्रतिपक्षा खपक्षसिद्धिरिति । तथा क्वचिद्दीतरागस्यापि प्रमाणोपपनतत्त्वत्राणाय च्छलादीन्युपयुज्यन्ते । अन्यथा स प्राञ्जलमतिart कक्लृप्तदूषणाम्बरेण तत्त्वाध्यवसायात् प्रचाल्येतेत्यलं जात्या प्रसङ्गेन ॥ १४४ ॥ अथ वितण्डालक्षणं ताण्डवयति । १६० स प्रतिपक्षस्थापनाहीनो वितण्डेति ॥ स यथोक्तो जल्पः । प्रतिपक्षस्थापनाहीनतया विशेषितो वितण्डात्वं प्रतिपद्यते । प्रतिपक्षस्थापनाहीनेति पदं जल्पेऽतिव्याप्तिनिषेधार्थम् । कोऽर्थः । वैतण्डिकस्य स्वपक्ष एव साधनवादिपक्षापेक्षया प्रतिपक्षो हस्तिप्रतिहस्तिन्यायेन तस्मिन् प्रतिपत्ते Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy