SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छंदः । १५८ अत्रापि सूत्रसंवादं दर्शयति । तथा चाह तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बौज प्ररोहसंरक्षणार्थ कण्ट कशाखावरणवदितीति ॥ तथा चाहेत्यत्र सूत्रकार इति शेषः । तत्त्वेत्यादि । तत्त्वानि प्रमाणादीनि तेषामध्यवसायो निश्चयः तस्य तत्त्वविप्लावकबौडादिभ्यो रक्षणाय जल्पवितण्डे प्रयोक्तव्ये। कोऽर्थः । तत्त्वमुपपोलयमानं बौद्धादिवादिदुर्दुरुढं जल्पवितण्डाभ्यां खण्डयित्वा तत्रातव्यमिति । अत्र दृष्टान्तः । यथा बोजाङ्गुरः कण्टकितशाखाहतिकरणात् त्रायते तथेति ॥ १४३ ॥ प्राविजिगीषुकथा जल्पवितण्डासंजोता तत्र जल्पलक्षणं लक्ष्यति। यथोक्तलक्षणोपपत्रच्छलजातिनि ग्रहस्थानमाधनोपालम्भो जल्प इति ॥ यथोक त्यादिविशेषणविशिष्टो जल्पो भवतीत्यन्वयः । यथोतोत्यादि। यथोतं यल्लक्षणं प्रमाणतर्कमात्रमहादस्य तेनोपपत्रो यः स तथोक्तः। छलजातीत्यादि। अर्थविकल्पोपपत्त्या वचनविघातः छलम् । स्वव्याघातकरमुत्तरं जाति: । पराजयनिमित्तं निग्रहस्थानम् । छलादिभिः स्वपक्षपरपक्षयोः साधनोपालम्भौ यत्र म तथा । छलादिपदोपादानं जल्पस्य वीतरागकथात्वव्यव. च्छेदार्थम् । अयमर्थः । अत्र यथोक्तालक्षणोपपन्नग्रहणेन प्रमाण तर्कमात्रमुपलक्ष्यते। न सब्जे वादलक्षणम् । सिद्धान्ताविरुद्धः पञ्चा Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy