________________
१५८
न्यायतात्पर्यदीपिका।
लोकेष्वादरः । ख्यातिः कौतिः । ताः कामयते वाञ्छति यः स तथोक्तः । जयेत्यादिस्तस्य जयः परस्य पराजयश्च । परानुग्रहार्थमिति परस्य शियादेः तत्त्वज्ञान प्रति निश्चयोत्पादनहारेणानुग्रहः प्रसादः। यहा परस्य बौहादेरज्ञानान्धतमसमलीमस. लोचना अमी नरकान्धकुहरे मा पतन्निति कृपया तत्त्वप्रकाशाद्योऽनुग्रहस्तदथं वा । ज्ञानाझरेत्यादि ज्ञानाङ्गरः स्वात्मस्थ: शिष्यादिस्थो वा तस्य बौद्धादिमृगेभ्यो रक्षणार्थं वा ।
वादिप्रतिवादीत्यादि। प्रारम्भको वादी। प्रत्यारम्भकः प्रतिवादी। क्षमामाध्यस्थ्यैश्वर्यबाहुश्रुत्यादिगुणग्रामाभिराम: सभापतिः । प्राशिकाः पुनः
स्वसमयपरसमयज्ञाः कुलजाः यक्षहयेमिता: क्षमिणः । वादपथेवभियुक्तास्तुलासमाः प्राश्निका: प्रोक्ताः ॥ इति लक्षणलक्षिताः। ते अझं शरीरं यस्याः सा तथोक्ता । अल्पेत्यादि सा च जल्पमंज्ञा वितण्डासंज्ञा च प्रोक्ता प्राच्यप्रामागिकैरिति शेषः । अत्र विजिगोधुकथालक्षणे विजिगीषुपदइयेन वादलक्षणोक्त वीतरागपदद्दयव्यवच्छेदः । लाभेत्यादि जयेत्यादि वाक्यद्दयेन च विजिगीषोः प्रयोजनकथनम् । परानुग्रहपदेन ज्ञानारीत्यादिपदेन च वीतरागविजिगीष्वोः फलकथनम् । चतुरङ्गेत्यादिपदेन त्राङ्गत्वादिव्यवच्छेदः । तेन चतुरङ्गैव विजिगीषुकथा कर्तव्येत्यावदितमन्यथा जयपराजयव्यवस्थादौथ्यात् जल्प इति वितण्डेति वक्ष्यमाणस्वरूप विजिगीषुकथाया एव विशेषसंज्ञायम् ॥ १४२ ॥
Aho! Shrutgyanam