________________
अनुमानपरिच्छेदः ।
साधनेन तत्त्वं प्रतिपद्यते तावद्दतव्यम् । नाधिकमप्रतिद्वन्द्वि
त्वात् ॥ १३८ ॥
स वादः कश्चिदप्रतिपक्षोऽपि भवतीत्यत्रापि सूत्रक्वसम्मति दर्शयति ।
तं प्रतिपक्ष होनमपि वा कुय्यात् प्रयोजनार्थित्वेनेति ॥ अत्र प्रतिपक्षशब्देन प्रतिपक्षविषयं साधनमुच्यते उपचारात् । तेन रहितमपि तमिति वादं विदध्यात्। अभ्यर्थात्तेन सहित -
मपि वा । केनेत्याह । प्रयोजनेत्यादि तत्त्वबुभुत्सापरतये
त्यर्थः
१४० ॥
अस्यैव सूत्रस्य तात्पर्थमाह ।
यथा शिष्यो गुरुणा सह प्रश्नद्वारेणैवेत्यर्थः इति
अत्र वादं विधत्ते न तु प्रतिपक्षसाधनमभिधत्त इति वाक्य
शेषः ॥ १४१ ॥
अथ विजिगीषुकथां लचयति ।
१५७
"
यत्र तु विजिगीषुः विजिगीषुणा सह लाभपूजाख्यातिकामो जयपराजयार्थं प्रवर्त्तते सा विजिगीषुकथा । वीतरागो वा परानुग्रहार्थं ज्ञानाङ्करसंरक्षणार्थञ्च प्रवर्त्तत । सा चतुरङ्गा वादिप्रतिवादि- सभापति- प्राश्निकाङ्गा । विजिगीषुकथा जल्पवितण्डासंनोक्तेति ॥
Aho ! Shrutgyanam
यत्र विजिगीषुर्वीतरागो वा विजिगीषुणा सह जयपराजयाद्यर्थं प्रवर्त्तते सा पुरुषशक्तिपरीक्षणफला विजिगीषुकथा भवतीति संटङ्गः । लाभेत्यादि । लाभ द्रव्यादिप्राप्तिः । पूजा