________________
न्यायतात्पर्य्यदीपिका।
स्त्यात्मा नास्त्यात्मेति वा। अधिकरणमाश्रय एकमधिकरणं ययोस्तौ। विचारं प्रयोजयतो न नानाधिकरणौ विरुद्धावपि यथानित्य आत्मा अनित्या बुद्धिरिति । अविरुद्धावपि विचारं न प्रयोजयतो यथा क्रियावद्रव्यं गुणवञ्चेति । भिन्नकालावपि न विचाराही इयोः प्रमाणोपपत्तेः यथा क्रियावद्रव्यं नि:क्रियञ्च । कालभेदेन तथावसितो विचारं न प्रयोजयतो निर्मयोत्तरकाल विवादाभावात् । तावेवंविधविशेषणी धर्मों पक्षप्रतिपक्षी तयोः परिग्रह इत्यम्भावनियम एवंधर्मायं धर्मी नैवंधर्मति च रूपी वादो भवति । तथा प्रमाणशब्देन प्रमाणमूला: प्रतिज्ञाद्यवयवा व्यपदिश्यन्ते। ततो वादे प्रमाणबुद्धिपरिग्रहीतावेव साधनोपालम्भी प्रयोत यौ। तर्कशब्देन च भूतपूर्वगतिज्ञानेन वीतरागकथावज्ञापनादुद्भावननियमो लभ्यते । तेन वादे प्रमाणबुद्धा परेण प्रयुक्तानि च्छलजातिनिग्रहस्थानानि न निग्रहबुद्दयोद्भाव्यन्ते किन्तु निवारणबुद्दया। तत्त्वज्ञानायावयोः प्रवृत्तिनै च साधना. भासो दूषणाभासो वा तत्त्वज्ञाननिमित्तमतो न तत्प्रयोगो युक्तः उपालम्भश्रवणात् । समस्त निग्रहस्थानानुषङ्ग इति चेन्न । उत्तरयोः पदयोर्नियमार्थत्वात् । तथाहि सिद्धान्ताविरुद्ध इत्यनेनापसिद्धान्तः पञ्चावयवोपपन्न इत्यनेन च पञ्चग्रहणात् न्यूनाधिके अवयवग्रहणानेवाभास पञ्चकञ्चल्यष्टावेव निग्रहस्थानानि वादे नियम्यन्ते। कस्मादिति चेत् । गुर्वादिना सह वादोपदेशत्वात् । यतस्तत्त्व बुभुत्सुरेव गुर्वादिना सह सन्देहविच्छेदानातार्थावबोधा. ध्यवमिताभ्यनुज्ञा आकाजन् वादं करोति । ततोऽसी यावता
Aho! Shrutgyanam