________________
न्यायतात्पर्य दीपिका।
वीतरागकथा वादसंजयवोच्यत इत्यत्र मूत्रकारसम्पति दर्शयति ।
तथाचोक्तम्। प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रही वाद इति ॥
प्रमाणतत्यादिविशेषणविशिष्टः पक्षप्रतिपक्षपरिग्रहो वादी भवतीत्यन्वयः । प्रमाणत्यादि। प्रमाणं प्रत्यक्षादि । प्रमाणानुग्राहकः स्वपक्षेऽनुकूल: परपक्षे प्रतिकूलो युक्तिविशेषस्तकः । साध्यतेऽनेन पक्ष इति माधनमनुमानम् । उपलभ्यते दृश्यते प्रतिपक्षोऽनेनेत्युपालम्भो दूषणम् । प्रमाणैस्तर्केगा च गोचरीकतसामर्थ्यो साधनोपालम्भौ यत्र स तथा। सिद्धान्ताविरुद्ध इति । प्रमाणतोऽभ्युपगम्यमानः सामान्य विशेषयानर्थः सिद्धान्तः । तन्त्राधिकरणाभ्युपगमसंस्थिति: सिद्धान्त इति सूत्रकारवचनात् । तन्त्र शास्त्रमधिकरणं येषामर्थानां ते तत्राधिकरणास्तेषामभ्युपगमसंस्थितिरिस्थम्भावनियम: सिद्धान्त इत्यर्थः ।
स चतुविधः मर्वत पतित त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् । तत्र सर्वत त्राविरुई स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रमिद्धान्त: सर्वेषां संप्रतिपत्तिविषयो यथा प्रमाणानि प्रमेयमाधनानि घ्राणादीन्द्रियाणि गन्धादयस्तदर्था इत्यादि। समानतन्त्र प्रसिद्धः परतन्तासिद्धः । प्रतित चसिद्धान्तो यथा भौतिकानीन्द्रियाणि योगानां अभौतिकानि सांख्यानाम् । यत्सिद्धावन्यप्रकरणमिद्धिः सोऽधिकरणसिद्धान्तः । हेतोयस्य सिद्धावन्यस्य प्रतिक्रियमाण स्य प्रतिज्ञार्थस्य सिद्धिः सोऽधिकरण सिद्धान्तः । यथा कार्यत्वादेः क्षित्यादौ वुद्धि
Aho! Shrutgyanam