________________
१५३
अनुमानपरिच्छेदः । स्वयमुपनतेष्वपि विषयेषु वशित्वाद्य: परामुखः स वीतरागस्तस्य कथा एका सा विजेतुमिच्छु विजिगीषुस्तस्य कथा द्वितीया च ॥ १३०॥
तैवाद्याया लक्षणमाह ।
यत्र वीतरागो वीतरागणैव सह तत्त्वनिर्णयार्थ साधनोपालम्भौ करोति सा वीतरागकथा वादसंज्ञयवोच्यत इति ॥
वीतराग: पूर्वोक्ता स्वरूपो वीतरागण व सह यत्र साधनोपालम्भी करोति सा वीतरागकथा भवतीति संटङ्गः । साधनोपालम्भाविति साधनं स्वपक्षे उपालम्भश्च परपक्षेऽनुमानदूषणम् । तत्त्वेत्यादि । यस्य वस्तुनो यः स्वरूपं तत्तस्य तत्त्वमुच्यते । यत्न करोति मा वीतरागकथेत्युक्त किं करोतीति कम्मापेक्षा स्यात्तद पनोदाय साधनोपालम्भाविति पदे। कः करोतीति करीपेक्षा. प्रतिक्षेपाय वीतराग इति पदम् । विजिगीषुकथायामपि वौतरागः परानुग्रहार्थं ज्ञानाङ्गरसंरक्षणार्थञ्च विजिगीषुणा सह वादे प्रवर्त्तते तत्रातिव्याप्तिनिवृत्त्यर्थं वीतरागेणेति पदम् । एवकारोऽन्ययोगव्यवच्छेदार्थः । किमर्थं करोतीत्यपक्षाव्यावृत्त्यै तत्त्वनिस यार्थमिति पदम् । कोऽर्थः । यत्र वीतरागस्तत्त्वनिर्मिनीषया वीतरागणे व सह न तु विजिगीषुणा स्वपक्षप्रतिपक्षी अनुमानदूषण उपन्यस्यति सा वीतरागकथा भवति । सा च वादसंज्ञयैवोच्यते । न पुनर्वीतरागकथातो वादः पृथक् पदार्थः । किन्तु वीतरागकथैव वाद इति ॥ १३८ ॥
Aho! Shrutgyanam