________________
१५२
न्यायतात्पर्यदीपिका।
सोयं परमो न्यायो विप्रतिपनपुरुषप्रतिपादकत्वात् कथाप्रवृत्तिहेतुत्वाञ्चेति ॥ ___ स इति पूर्व व्याचिख्यासितोऽयमितीदानी परिसमाप्तः । पञ्चावयवरूपो न्यायः । परम इति पक्षः कस्मादित्याह । विप्रतिपन्नेत्यादि । विरुद्धज्ञानो विप्रतिपन्नः ।। ___ अत्र विप्रतिपन्नेति च पदमुपलक्षणम् । तेन सन्दिग्धाव्युत्पन्नादयोऽप्युपलक्ष्यास्तेषामपि प्रतिपाद्यमानत्वात् । अन्योऽपि राज्ञो न्यायः । कलहायमानजनप्रतिबोधकत्वेन परमो भवत्येव । तथा कथेत्यादि द्वितीयो हेतुः । कथा तु वक्ष्यमाणलक्षणा । एतेन कथा पञ्चावयवप्रयोगपूर्व कर्तव्येत्यावदितम् ॥ १३५ ॥ अथ कयां लक्षयति ।
वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथेति ॥ अत्र कथेति लक्ष्यं शेषं तु लक्षणम् । कथ्यते स्वाभिमतार्थोऽनयेति कथा। पक्षेत्यादि पनोऽनित्यत्वादिस्त प्रतिपक्षो नित्यवादिस्तयोः परिग्रहः स्वीकार इति । कयोरित्याह वादीत्यादि । साधनदूषणवादिनोः परिग्रहो वाद इत्युक्ते यः कश्चिद्दादः कथा स्यात्तनिवृत्त्यै पक्ष प्रतिपक्षेति पदम् । तथापि साधनदूषणरहितं पक्षप्रतिपक्षपरिग्रहमात्रं कथा स्यात्तदपोहा) वादिप्रतिवादिनोरिति पदम् । वादिप्रतिवादिनोः पक्षप्रतिपक्षकक्षीकारेण वचनोपन्यास: कथेत्यर्थः ॥ १३६ ॥ तद्भेदमभिधत्ते।
सा दिविधा वीतरागकथा विजिगीषुकथा चेति ॥
Aho! Shrutgyanam