________________
· अनुमानपरिच्छेदः ।
१५१
तत आकाक्षायां वाक्यं प्रयोकव्यम् । तथा हि शब्दः कि नित्यः किं वाऽनित्य इत्याकाङ्क्षायां शब्दोऽनित्य इति प्रतिज्ञावचनेनानिश्चितानित्यमानविशिष्टः शब्दः कथ्यते । कस्मादित्याकाबायां तोबादिधर्मोपेतत्वादित्यनेन साधनधर्ममात्रमुच्यते । यदि तीव्रादिधर्मोपेतः शब्दस्तत: किमित्याकाङ्कायां यदिह तोवादिधर्मोपेतं तदनित्यं दृष्टं यथा सुखादीत्यनेन साध्य. सामान्येन साधनसामान्य स्यान्वयमात्रमुच्यते । नित्यं न तीव्रादिधर्मोपेतं यथा व्योमेत्यनेन साध्याभावे साधनाभावो दश्यते । तथाच शब्दो न च तथेत्यन्वयव्यतिरेकाभ्यां दृष्ट सामर्थ्यस्य साधनस्थोपन योऽभिधीयते। ततो यथा यत्कृतकं तदनुष्णं दृष्टं यथा घट इति बहिर्व्याप्तिसम्भवेऽपि कृतकस्तेजोऽवयव्यनुषणो न भवति प्रत्यक्षविरोधात्। तथा यत्तीवादिधर्मोपितं तदनित्यमिति बहिर्याप्ती सत्यामपि तीव्रादिधर्मोपेतोऽपि शब्दोऽनित्यो न भविष्यतीति विपक्षशङ्कायां तस्मादनित्य एव शब्दो भवतीति निगमनेनार्थपरिसमाप्तिः क्रियते । अत्र दृष्टान्तः हेत्वर्थेत्यादि । यथानित्यः शब्दः कृतकत्वादित्यस्य हेतोर्मीमांसकं प्रति विप्रतिपत्तौ सत्यां शब्दः कतकस्तीवादिधर्मोपेतत्वात् सुखादिवदिति तत्साधकप्रमाणोपन्यासो भवति । तथा निगमनार्थविप्रतिपत्तौ बाधकप्रमाणोपन्यासोऽपि स्यात् । ततो बाधक प्रमाणस्य निगमनार्थत्वान्निगमनमेवेष्टव्यं किं तावता क्लेशेनेत्य लम् ॥१३४ ॥
अथ पञ्चावयवनयोगस्य परमन्यायत्वं प्रकाशयन् कथालक्षणं प्रस्तौति ।
Aho! Shrutgyanam