________________
१५०
न्यायतात्पर्य्यदीपिका।
सत्त्वं तच्चाक्षणिकेषु क्रमाक्रमाभ्यामनुपपद्यमानं स्वव्याप्यामर्थक्रियामादाय निवर्तते ततो क्षणिक खरविषाणप्रायं स्यादिति विपक्षे बाधकमुपन्यस्यति । तदा प्रतिज्ञासंन्यासनाम्ना निग्रहस्थानेन निगृहीतो भवति। निगमनं नाभ्युपगच्छामोति प्रतिज्ञाया विपक्षे बाधकप्रमाणाभ्युपगत्या सव्यासात् ॥१३२॥ नन्वन्यत्त्यजतोऽन्यहहतश्च कथं निग्रहीति: स्थादित्याह ।
निगमनार्थ वादाधकस्येति ॥ बाधकस्य विपक्षक्षेपकप्रमाणस्य निगमनप्रयोजनत्वात् । निगमनार्थमेव बाधकमुपन्यस्यत इत्यर्थः ॥ १३३ ॥ __ननु निगमनाभिधानेऽपि कदाचित्यरस्य विप्रतिपत्तिन व्यपैति ततो विपक्षे बाधकमेवोपन्य स्यते किमनेनान्तर्गडुनेत्याह ।
निगमनार्थ विप्रतिपत्तौ हि बाधक प्रमाणोपन्यासो युक्ती हत्वयविप्रतिपत्तौ तत्साधकप्रमाणोपन्यासवदितीति ।
ननु बाधकं त्वया कदोपन्यस्यते किं प्रारीव उत निगमनार्थविप्रतिपत्तौ। यदि प्रागैव तदा व्यर्थम् । अथ निगमनाविप्रतिपत्तौ तदा भिगमनमेवोपन्यास्यं तस्य तडूपत्वात्। इदमुक्तं स्यात्यरार्थानुमानं न मंप्रतिपन्न प्रति वैयात् । विप्रतिपन्न प्रति तु यावता हेतोः साधकत्वं वस्तु व्रत्त्योपपद्यते तावानर्थो वचनैन"" प्रतिपादनीयो न प्रतिपत्त विशेषानुरोधेन तितव्यं प्रतिपत्तुणां विचित्रशक्तिकत्वात् तच्चित्तवृत्तेर्दुरन्वयवाच्च। तदुक्तम् ।
वस्तु प्रत्यभिधातव्य: सिद्धान्तो न नरान् प्रति । को हि विप्रतिपनार्थस्सङ्घ डोरनुधावतीति ॥
Aho! Shrutgyanam