SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । ननु किमर्थं विपक्षे बाधकप्रमाणान्वेषणमित्याह । न च तदन्तरेण साध्यावधारणमुपपद्यत इति ॥ तदन्तरेणेति । साध्यविरुद्धाभावप्रतिपादक प्रमाणमन्तरेण । साध्यस्यावधारणं निर्णयो न घटामटाट्यते प्रतिपक्षस्थापक प्रमाणशङ्काया अनिवर्त्तनात् । न च निगमनादन्यत्किञ्चिद्दाधकम् । तस्यैव प्रतिपतीत्यापक प्रमाणाभावावेदकत्वादिति प्रागप्युक्तत्वात् ॥ १३० ॥ अत्रार्थे सूत्रसम्मतिं दर्शयति । १४६ तथाचोक्तं विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति ॥ विमृश्येति अनित्यः शब्दो नित्यो वेति संदि । अर्थस्य साध्यस्यानित्य एवायं कृतकत्वादित्यवधारणं निर्भयः क्रियत इत्यन्वयः काभ्यामित्याह । पक्षप्रतिपक्षाभ्यामिति । अत्र पक्षप्रतिपक्षशब्देनोपचारात्पचविषयं साधनं प्रतिपक्षविषयं साधनदूषणमुच्यतेऽन्यथा निर्णयायोगात् । कोऽर्थः । निगमनेन प्रतिपक्षसाधनं प्रतिक्षिप्य साध्यनिर्णयः कर्त्तव्य इति ॥ १३१ ॥ किश्च यो निगमनं साधनाङ्गमित्यनभ्युपगम्य बाधकं प्रमाणमभ्युपगच्छति । स निग्टहीतः स्यादित्यावेदयितुमाह । निगमनाभिधानमसाधनाङ्गमभ्युपगम्य बाधकं प्रमाणमभ्युप गच्छतो निग्रहस्थानं प्रसज्येतेति ॥ बौद्धो हि निगमनं साधनाङ्गं न भवतीति प्रतिशृणेति । स यदा सर्वे क्षणिक सत्त्वादित्यादावनुमानेऽर्थक्रियाकारित्वमेक Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy