________________
१४८
न्यायतात्पर्यदीपिका।
प्रतीतौ तहाक्येनोच्यते। परं प्रत्यपि वाचकत्वं लिङ्गस्यैव । वाक्यन्तु तटुपक्षेपमात्रे चरितार्धम् । लिङ्गं तच्च हेत्वादिभिरेवावयवैरन्वयव्यतिरेकाभ्यां प्रत्यपादि। तावतैव साध्यसिद्धेयर्थं निगमनस्येति पराभिप्रायं मनमिकल्य तदपोहायाह । ___ न चेदमनर्थकं साध्यविरुद्धाभावप्रतिपादकप्रमाणसूचकवादस्यति ।
इदं निगमनं व्यर्थं न भवति । किन्तु सार्थकम् । अत्र हेतुः साध्येत्यादि। साध्यमनित्यत्वादि तस्य विरुद्धं नित्यत्वादि तन्नास्तित्ववाचकप्रमाणपिशुनत्वात् । अस्येति निगमस्य । कोऽभिप्रायः । यद्यपि वाक्यं लिङ्गसामर्थ्य भेव बोधयति न साध्यम् । तथापि लिङ्गस्य सामर्थ्य न बहिर्व्याप्तिपक्षधर्मतामात्रम् । तस्मिन् सत्यपि प्रकरणसमकालात्ययापदिष्टयोरसाधक ल्वात्। किन्लसप्रतिपक्षत्वमबाधितविषयलमपि तत्सामर्थ्यम् । तच्चोभयं यावप्रमाणे न न प्रतिपाद्यते तावत्प्रतिपक्ष समावशङ्काया अनिवृत्तेः साधने धर्मिणि संहृतेऽपि साध्यसिद्धरयोग इति साध्यविरुद्धाभावप्रतिपादकप्रमाणसूचनायें निगम नमेष्टव्यम्। अनेन हि विपरीतप्रमाणाभावसाधकं प्रमाणमुपदश्यं प्रकरगासमत्वाद्यभावे निर्माते साधनं विदितसामर्थ माध्यं साधयतीति निगम सार्थकमिति। ततो या नुनामपि सामर्थ्य मालभ्यते इति तत् व्यर्थमुच्येत। तदा दृष्टान्नादिकमपि व्यर्थं वाच्यं स्यात्प्रतिज्ञानन्तरं हेलभिधानादेव धीमतां स्वयमेवान्वयव्य तिरेकस्मारगेन साध्यावममादिति ॥ १२६ ॥
Aho! Shrutgyanam