________________
अनुमानपरिच्छेदः ।
१४७
कथं ततो नान्वयसिद्धिरित्यलं प्रतिबन्ध्या। ततो हेतोः पक्षधर्मव. निश्चित्यै उपनयोऽङ्गीकर्तव्य एवेति ॥ १२६ ॥ इत्युपनयं व्याख्याय निगमनमवगमयति ।
उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं निगमनमिति ॥ अत्र निगमनमिति लक्ष्यं शेषं तु लक्षणम् । निगम्यते नियम्यते साध्यलक्षणार्थोऽननेति निगमनम्। किं तदित्याह सहेतुकं प्रतिज्ञावचनमिति हेतुसहित: पक्षनिर्देश इत्यर्थः । कदा उपनयानन्तरमिति । प्रतिज्ञावचनं निगमनमित्युक्त शब्दोऽनित्य इत्यस्थामपि प्रतिज्ञायां निगमनत्वं स्यात्तापोहाथं सहेतुकसिति । तथाप्य नित्यः शब्दः कृतकत्वादित्येतदनि निगमनं स्यात्तनिवृत्त्यै उपनयानन्तरमिति । उपनय मुक्त्वा हेतुयुक्तं पुनः प्रतिज्ञावचनं यनिर्दिश्यते तनिगमनमित्यर्थः ॥ १२७ ॥ उदाहरति ।
* तम्मादनित्यएवेति ॥ तस्मादिति तीव्रादिधर्मोपेतत्वात् । शब्दोऽनित्यएव भवतीति निगमनम् ॥ १२८ ॥
ननु स्वार्थानुमानं यथा लिङ्गसामादुट्टीकते तथा परार्थानमानमपि । इयांस्तु विशेष: स्वप्रतीतो स्वयमिदमनुसन्धीयते । पर
* The reading “तदपि विविधं साधर्मवैधभवनेदात्" is ackied in tire text before the uphorism adoptel here, and the realing H T farhat" is added after the aphorism (See paye 15. Line 23).
Aho! Shrutgyanam