________________
न्यायतात्पय्यदीपिका ।
तथेति शब्दो दृष्टान्तोपमानद्योतनार्थः यथा सुखादि तीव्रादिधर्मोपेतं तथा शब्दोऽपीत्यर्थः । सुखादिसधर्मगततोत्रादिधर्मोपेतत्वोपनयादयं साधयोपनय इति कथ्यते ॥ १२५ ॥ द्वितीयं भेदं दर्शयति ।
१४६
* न च तथा तीव्रादिधर्मोपेतः शब्दो न भवतीति वैधयोंपनय इति ॥
अत्रापि तथेति वैधर्म्यदृष्टान्तोपप्रदर्शनार्थः । यथाकाशं तीव्रादिधर्मोपेतं न भवति तथाकाशवन्न | न तीव्रादिधर्मोपेतः शब्दोऽपितु तौत्रादिधर्मोपेत एव । आका गवैधर्म्यव्यावृत्ततीव्रादिधर्मोपेतत्वोपनयनाद्वैधर्म्यापनयोऽयमुच्यते । यद्यपि नव्हयेन न कश्चिदर्थभेदस्तथाप्युक्तिभेदोऽस्तीति नानयोरैक्यमिति । साधनाभिधानस्य सामर्थ्यादेव पक्षधर्मत्वप्रतीतिसिद्धेर्व्यधिकरणस्य चासाधकत्वात् द्विधाप्युपनयोऽसौ व्यर्थ इति चेन्न हेत्वभिधानसामथ्र्याप्राप्तिसिद्धावनन्वितस्य च तदयोगे दृष्टान्तोऽपि न वाच्यः स्यात् । असिद्धस्यापि हेतोर्भ्रान्त्या हेतुत्वसंभवात्ततो निश्चितान्वयप्रतिपत्तिर्न स्यादिति दृष्टान्तेन सा हढ़ीक्रियते इति चेत् । अत्रापि अपक्षधर्मस्यापि हेतोर्भ्रान्त्या हेतुत्वदर्शनात्र ततः पक्षधर्मत्वसिद्धिरस्तीति दृष्टान्तस्थहेतोः पतेऽस्तित्वख्यापक उपनयोऽभ्युपेतव्यः । असिद्धस्यापि हेतोरुपनयो दृश्यते इति कथं ततः पक्षधर्मत्व सिद्धिरिति चेन्न । विनाभूतस्यापि हेतोर्हेतुत्वं दृश्यते ।
*
The word is omitted in the text. (See page 14. Line 18}
Aho ! Shrutgyanam