________________
१४५
अनुमानपरिच्छेदः । इत्यं दृष्टान्तं साभामं स्पष्टयित्वोपनयं लक्षयति ।
दृष्टान्ते प्रसिद्धा विनाभावस्य साधनस्य दृष्टान्तीपमानेन पटे व्याप्तिख्यापकं वचनमुपनय इति । . अनोपनय इति लक्ष्यं शषं तु लक्षणं उपनीयतें प्राप्यते दृष्टान्त प्रसिद्धाविनाभावं साधनं साध्यकोटिमनेनेत्युपनयः । किं तत् व्याप्तिख्यापकं वचनमिति साध्यसाधनयोः क्रोडीकरणं व्याप्तिः । सा ख्याध्यते येन तत्तथा। क पचे प्रतिज्ञायाम् । कस्येत्याह साधनस्य हेतोः। कीदृशः प्रसिद्धेत्यादि । क दृष्टान्ते । केन दृष्टान्तीपमानेनेति । दृष्टान्तस्योपमा तथाचेति रूपं वचनं तेन ।
वचनभुपनय इत्यु तो यत्किञ्चिदचनमुपनयः स्यात्तनिवत्यै व्याप्तिख्यापकमिति पदम् । कस्येत्यपेक्षाप्रतिक्षेपार्थ साधनस्येति पदम् । साधनाभासस्यापि व्याप्तिख्यापकं वचनमुपनयः स्यात्तनिवृत्त्यर्थं दृष्टान्ते प्रसिद्धाविनाभावस्येति पदम् । यत्र क्वापि व्याप्तिख्यापकवचनस्थोपनयत्वापनुत्त्यै पक्षे इति पदम् । हेतुवचने चातिव्याप्तिव्यवच्छित्यै दृष्टान्तोपमानेनेति पदम्। उपमानेनेति विशेषणमुपलक्षणं तेन वैधयेणाप्युपनयः स्यादिति तात्पर्यम् ॥ १२४ ॥ उपनयः साधर्म्यवैधय॑भेदाद् द्विधा भवति तवाद्यं भेदं दर्शयति ।
* तथाच तीव्रादिधौंपेतः शब्द इति माधोपनय इति ।
___ * 'The reading “म विविधः साधम्मोपनयो वैधम्मो पन यति" is added in the text before the aphurism adopted by the commentator hiere, ( Scopage 14. Line 17).
Aho! Shrutgyanam