________________
१४४
न्यायतात्पर्यदीपिका।
सन्दिग्धसाध्यादश्यावृत्तः सन्दिग्धसाध्याव्यात्तः । एवं पुरोऽपि विग्रहः स्वयमभ्यू ह्यः । यो महाराज्यं न करिष्यतीत्यादि व्यतिरेकव्याप्ति:। अन्यस्मिन् राजपुरुष सोमवंशादन्यत्रोत्यादिषणा. वपि राज्य करणं प्रमाणाभावात् सन्दिग्धं ततो दृष्टान्तस्य सन्दिग्धसाध्याव्यावृत्तखम् ॥ १२० ॥
सन्दिग्धसाधनाव्याहत्तो यथा यस्तु सर्वज्ञः स रागादिरहितो यथा समस्तशास्त्राभिन्न इति ॥
अत्र समस्तशास्त्राभिन्न रागादिमत्त्वं साधनं सन्दिग्धम् । कहि चित्तस्यापि रागादिमत्त्वादिति सन्दिग्धसाधनाव्यात्तत्वं दृष्टान्तस्य ॥ १२१ ॥
सन्दिग्धोभयाव्यात्तो यथा यः स्वर्ग न गमिष्यति स समुपार्जित शुक्लधर्मोऽपि न भवति यथा दुःस्थः पुरुष इति ॥ ___ अत्र दुःस्थे पुंसि स्वर्गतः समुपार्जित शुक्लधमत्वस्य च प्रमाणाभावात्र निर्णयः। कर्हिचिःस्थोऽपि स्वर्गामौ समुपार्जित शुक्लधर्मश्च स्यादिति सन्दिग्धसाध्यसाधनत्वम् ॥ १२२ ॥
सन्दिग्धाश्रयो यथा यः सर्वज्ञः सोऽवद्यवक्तापि न भवति यथा भविष्यद्देवदत्तपुत्र इति ॥
अत्र दृष्टान्तीकृतस्य देवदत्तपुत्रस्य भविष्यत्त्वादेव मन्दिग्धाश्रयत्वम् । को वेद पुत्रो वा पुत्री वा भविष्यति ॥ १२३ ॥
* The text rends “बजवक्तापि" instend of "अवधवक्तापि" ( See Page 11, Line 139.
Aho! Shrutgyanam