________________
अनुमानपरिच्छेदः ।
१४३
अत्रापि दृष्टान्तीकृते रथ्यापुरुषे येन केनाप्युपायेन निश्चिता सर्वज्ञत्वे रागादिमत्त्वं सन्दिग्धम् । नन्वसर्वज्ञत्वस्य रागादिमत्त्वेन सहा विनाभावित्वादसर्वज्ञत्वं निश्चित्यैव तन्निश्वितौ सन्दिग्धो भयोऽयं स्यान्र सन्दिग्धसाधन इति चेत् । सत्यं परमनुदरा कन्येति प्रदपि तदसर्वज्ञत्वं सन्दिग्धत्वेनाविवक्षित्वाद् रागादिमत्त्वं विवचितम् । तत्सन्दिग्धमस्तीति सन्दिग्धसाधनत्वम् ॥ ११७ ॥
सन्दिग्धो भयो यथा गमिष्यत्ययं स्वर्गं विवक्षितः पुरुषः समुपार्जितशुक्लधत्वाद्देवदत्तवदिति ॥
अत्र दृष्टान्तीकृते देवदत्ते उभयं सन्दिग्धम् । कोवेद देवदत्तः समुपार्जितशुक्लत्वो न वा स्वर्यास्यति न वेत्युभयस्य साधनस्य साध्यस्य च सन्दिग्धत्वात् ॥ ११८ ॥
सन्दिग्धाश्रयो यथा नायं सर्वज्ञोऽवयवक्तृत्वात् भविष्यद्देवदत्तपुत्रवदिति ||
अत्र दृष्टान्तोकते भविष्यति देवदत्तपुत्रे प्रमाणाभावादाश्रयस्य सन्दिग्धत्वम् ॥ ११८ ॥
एवं साधर्म्येण चतुरो दृष्टान्ताभासान् प्रकाश्य वैधर्म्येण
तानाह ।
सन्दिग्धसाध्या व्यावृत्तो यथा यो महाराज्यं न करिष्यति स सोमवंशोद्भूतोऽपि न भवति यथाऽन्यो राजपुरुष इति ॥
* The Text reads “बद्धवक्तत्वात्" instead of 'श्रवद्यवक्तृत्वात् " ( See p 14, Line 6 ).
Aho! Shrutgyanam