________________
१४२
चायतात्पर्यदीपिका। ननु दृष्टान्ते वक्त कौशलमप्यपेक्ष्यत इति अन्वये व्यतिरेके चाव्याप्ताभिधानविपरीतव्याप्ताभिधाने दृष्टान्तदोषाविति चेछ । करणयाटवादीनामपि तत्रापेक्षणीयत्वेन तदभावे तेषामपि दृष्टान्तदोषापत्त्या दृष्टान्ताभासानामियत्ताभङ्गप्रसङ्गात् ततो वचनदोषावेतौ ॥ ११३ ॥ एतेषु विभागमाह।
अनाद्याः षट् साधोदाहरणाभासा इतरे षट् वैधोदाहरणाभासा इति ॥ ___ व्यक्तमेतत् ॥ ११४ ॥ केषाञ्चिन्मतेऽन्येप्युदाहरणाभासा: सन्तोत्याह। अन्ये तु सन्देहदारेणापरानष्टावुदाहरणाभासान् वर्मयन्तीति ॥
साध्यादौनां यः सन्देहोऽर्थात् दृष्टान्ते स एव हारमुपायस्ते नेत्यर्थः ॥ ११५ ॥ तानुदाहरति ।
मन्दिग्धसाध्यो यथा महाराज्यं करिष्यत्ययं सोमवंशोद्भूतत्वात् विवक्षितराजपुरुषवदिति ॥
अत्र सोमवंशस्य कस्यापि महाराज्य करणं साध्यं सोमवंशोतत्वं हेतु: दृष्टान्तः। सोमवंश एव कश्चिद्राजपुत्रस्तत्र साधनं निश्चितं परं राज्यं करिष्यति न वेति साध्यस्य सन्दिग्धत्वात् सन्दिग्धसाध्यो दृष्टान्ताभासोऽयम् ॥ ११६ ॥
सन्दिग्धसाधनोऽपि यथा नायं सर्वज्ञो रागादिमत्त्वाद्रध्यापुरुषवदिति ॥
Aho! Shrutgyanam