________________
अनुमानपरिच्छेदः ।
तेच बहुधा
उदाहरणवदाभासमाना इति पदम् । सम्यगुदाहरणेष्वतिव्याप्तिनिवृत्त्यर्थमुदाहरणलक्षणरहिता इति पदम् । भवन्तीत्याह । अनेकप्रकारा इति । उदाहरणानां बाहुविध्यादिति शेषः । तथाचेति प्रयोगोपदर्शनार्थं प्रयोगानन्तरं निदर्शनस्य दर्शयितुमुचितत्वेन । अनित्यं मनो मूर्त्तत्वात् इत्यत्रानुमाने उदाहरणणभासोदाहरणनि कथ्यन्त इत्युक्तम् ।
ननु मनसि कथं मूर्त्तत्वमिति चेत् । अनुमानादिति ब्रूमः । मनोऽणुपरिमाणं आत्मसंयोगित्वे सति निरवयवत्वात् परमाणुवदिति ॥ ६८ ॥
उदाहरणाभासानेव दर्शयति ।
१३८
यन्मूत्तं तदनित्यं दृष्टं यथा परमाणुरिति साध्यविकल इति ॥ यन्मूर्त्तमित्याद्यन्वयव्याप्तिः । अत्र साध्यस्यानित्यत्वस्य परमाणावभावात् दृष्टान्तस्य साध्यवैकल्यं मूर्त्तत्वेऽपि परमाणोर्नित्यत्वात् ॥ १०० ॥
यथा कर्मेति साधन विकल इति ॥
sa साधनस्य मूर्त्तत्वस्य कम्मण्यभावात् साधनवैकल्यम् । मूर्तभावस्तु कणोवासनारूपत्वात् ॥ १०१ ॥
यथाकाशमिद्युभयविकल इति ॥ अनित्यत्वमूर्त्तत्वयोराकाशेऽभावादुभयवैकल्यम् ॥ १०२ ॥ यथा शशविषाणमित्याश्रयहीन इति ॥
शशविषाणस्याभावादृष्टान्तस्याश्रयवैकल्यम् । अयञ्च महान् दोषो व्याप्ते निरधिकरणाया निश्चेतुमशक्यत्वात् ॥ १०३ ॥
Aho ! Shrutgyanam