________________
१३८
न्यायतात्पर्यदीपिका ।
भावस्य व्याप्तिर्व्यतिरेकस्तद्वारा दृष्टान्तभगनं वैधम्र्योदाहरणं
भवति । यदनित्यं न भवतीत्यादि व्यतिरेकव्याप्तिप्रकटनम् । आकाशमिति दृष्टान्तः । तत्रानित्यत्वाभावात्तीव्रादिधर्मोपेतत्व: वैधदृष्टान्तस्य च प्रमासिद्धत्वात् । यदुक्तं
स्याप्यभावः ।
बौद्ध:
ः ।
तस्मात् वैधर्म्यदृष्टान्तोनेष्टोऽवश्य मिहाश्रयः ।
तदभावेऽपि तन्नेति वचनादपि तद्वतेरिति ॥
तत्प्रत्युक्तं ज्ञेयम् । व्यतिरेकदृष्टान्तं विना यवेदं नास्ति तत्रेदमपि नास्ति इति वचनादेव साध्यव्यावृत्त्या साधनव्यावृत्तिप्रतीतेरसम्भवादित्यर्थः ॥ ८८ ॥
उदाहरणलक्षणप्रण्य नेनोदाहरणाभासाः प्रतिक्षिप्ता भवन्त्यतस्तेषां लक्षणं सोदाहरणमाह ।
*उदाहरणलक्षणरहिता उदाहरणवदाभासमाना उदाहरणा भासास्ते चानकप्रकारास्तथाचानित्यं मनो मूर्त्तत्वादित्येतस्मिन प्रयोगे सर्वेऽपि उदाहरणाभासा उच्यन्ते इति ॥
अत्रोदाहरणाभासा इति लक्ष्यम् । शेषं लक्षणम् । उदाहरण लक्षणं साध्यसाधनक्रोडीकृतत्वं तेन रहिताः । वतिनोदाहरण तौल्येनाभासमानाः स्वार्थासाधकत्वादुदाहरणाभासा भवन्ति उदाहरणाभासा इति लक्षणं कृते किमपेक्षा स्यात्तवृत्तं
The reading adopted by the commentator here differs som what from the text ( See page 13, Line 1),
*
Aho ! Shrutgyanam