________________
अनुमानपरिच्छेदः।
१३७ रन्वयस्तद्वारा निदर्शनं साधोदाहरणं भवति । तौवादिधर्मोपेतत्वमिति तीव्रत्वमुच्चैस्वं आदिशब्दात्तीव्रतरत्वतीव्रतमत्वादिपरिग्रहः। तीव्रत्वादिधमरुपेतः शब्द एव तस्य भाव इत्यर्थः । यद्यत्तीवादिधर्मोपेतमित्यादि अन्वयव्याप्तिप्रदर्शनम् । - सुखादीति दृष्टान्तः । आदिगन्दाहुःखादिपरिग्रहः । तारसम्येनानुभवनात् सुखादौ तौवादिधर्मोपेतत्वमस्त्येव तस्मादनित्य त्वमस्तीति साध्यसाधनवत्त्वम् ।
ननु तोबादिधर्मोपेतत्वादित्ययं हेतुर्भागासिद्धः यतोऽन्त्यशब्द एवानुभूयते। तौवादिधर्मोपेतत्वं न शब्दजनितशब्दान्तरेष्विति चेत् । नेवम् । पूर्वशब्दानां यदि तीवादिधर्मोपेतत्वं न स्यात्तदास्येऽपि शब्दे न स्यात्यूवशब्दजनितत्वादन्त्यशब्दस्य । तथाच सति समानजातीयारम्भकत्वमपि भज्येत तस्मादस्त्येव पूर्वशब्देश्वपि तौबादिधर्मोपेतत्वम्। अवानुमानम् । विवादाध्यासिताः शब्दाः नोवादिधर्मीपेता: शदवादन्त्यशब्दवदिति ॥ ८७ ॥ वैधयॊदाहरणमाह।
व्यतिरेकमुखेन दृष्टान्ताभिधानं वैधोदाहरणं यथा यदनित्यं न भवति तत्तोबादिधर्मोपेतमपि न भवति यथाकाशमिति ॥ * व्यतिरेकमुखेनेति । साधनसामान्याभावेन साध्यसामान्या
* The Cutting "एते नोदाहरणाभासानामुदाहरणत्वमुन्नं भवति" is sdded fiere in the text ( Vide pace 12, Line 16).
Aho! Shrutgyanam