________________
१३६
न्यायतात्पर्य दीपिका।
निर्दिश्यते साध्यसाधने अस्मिन्नित्युदाहरणं निदर्शन मिति । कि तदित्याह मम्य गित्यादि। दृष्ट्योः साध्यसाधन योरन्तोऽवसानं यस्मिन्नसौ दृष्टान्तस्तदभिधानं कथन मिति । सम्यक्पदं दृष्टान्ताभासव्युदासाथैम् । दृष्टान्तपदं यत्किञ्चिदभिधानस्योदाहरणत्वव्यवच्छेदाय ।
न चेदमुदाहरणं व्यर्थमिति बौद्धैः प्रत्यवस्थेयम् । हेतुवद स्यापि प्रतिपाद्यप्रतिपत्त्यङ्गभूतत्वात् । हेतुरेवैकस्तत्र समर्थ इति चेन्न । विप्रतिपन्न प्रति तत्प्रयोगेऽपि प्रतिपत्त्यदर्शनात् । संप्रतिपन्न प्रति तु तदभावेऽपि तदोक्षगात् । तत्राग्निरस्तीति निश्चिताप्तत्वपुरुषप्रणीतवचनादपि साध्यसिद्धी हेतोरप्यनपक्षणीयत्वप्रसङ्गात्। अथ परप्रतिपत्त्यर्थ हेतुरपेक्ष्यत एवेति चेत्तख़ुदाहरणमण्यपेक्षणीयमेव तहिना तदयोगादित्यलं प्रसङ्गेन ॥ ८५ ॥ तद्भेदमाह ।
तविविधं साधयवैधर्म्यभेदादिति ॥ समानो धर्मो यस्य स मधर्मा। विरुद्धो विसदृशो वा धर्मो यस्य स विधर्मा तयोर्भावी साधर्म्यवैधयें तयोर्भेदात्तविभेदमित्यर्थः ॥ ६ ॥ तत्राद्यमुदाहरति ।
अन्वयमुखेन दृष्टान्ताभिधानं साधोदाहरणं यथानित्यः शब्दस्तीवादिधर्मोपेतत्वात् यद्यत्तीवादिधर्मोपेतं तत्तदनित्यं दृष्टं यथा सुखादीति ॥
अन्वयमुखेनेति । साध्यसामान्येन साधनसामान्यस्य व्याप्ति
Aho! Shrutgyanam