________________
अनुमानपरिच्छेदः ।
१३५ वात्। न चान्यतरस्य हेतोविशेषोऽवगम्यते । येने कपक्षावधारणं स्यात्ततोऽयं तुल्यलक्षणविरुइहेतुहयोपनिपातो विरुद्धाव्यभिचारी भवति। स च प्रकरण समात् पृथगेव हेतुहयात्मकत्वात् । प्रकरणसमस्य तु स्वपरयक्षसिहावेकहेवात्मकत्वादिति ॥ ८३ ॥
नन्वयम सिद्धादिवद्धत्वाभास एव किंवा हेतुरपि स्यादित्याशवयाह ।
स खलु पुरुषविशेषमपेक्षमाणो हेवाभामो भवत्यन्यतरासिद्धादिवदिति ॥
यथा परं प्रत्यसिदो हेतुः स्वप्रयोक्तारमसमर्थमपेक्ष्य तेनासाध्यमानो हेवाभासो भवति। यथा स इति विरुद्धा व्यभिचारी। पुरुषविशेषमिति। स्वप्रयोक्तारं दुर्बलमपेक्ष्य हेवाभासो भवेत्। यदा बन्यतरानुमाने धर्मिग्राहकप्रमाणबाधादिक दोषमुद्भावयेत् । तदैक कालात्ययापदिष्टादिदोषग्रस्तं स्यादन्यच्च प्रमाणम् ।।
अत्र तु व्योनो व्यायकत्वेनात्मवत्तदुत्पादक कारणाभावात् प्रामाणिक्यां नित्यत्व सिद्धी सत्यां धर्मिग्राहकप्रमाणबाधितत्वादनित्यत्वसाधकमेवानुमानं कालात्ययापदिष्टं भवतीति । विरुद्धाव्यभिचारी न सर्वथा हेत्वाभास इत्यलम् ॥ ८४ ॥
हेतुप्रसङ्गेन हेत्वाभासान् सोदाहरणानुदाहृत्य संप्रत्युदाहरणाख्यं वतीयमवयवं व्याचष्टे।
सम्यग्दृष्टान्ताभिधानमुदाहरणमिति ॥ अनोटाहरणमिति लक्ष्यं शेषन्तु लक्षणम् । उदाहियेते
Aho! Shrutgyanam