________________
अनुमानपरिच्छेदः ।
१३१
चागमेन क्षीरयानस्य पापसाधनत्वाभाव उक्तस्तेनैव सुरापानस्य पापसाधनत्वमुक्तमिति । प्रतिज्ञाया दृष्टान्तग्राहकप्रमाणेनेति विरोधः ॥ ८७ ॥ चतुर्थ भेदमाह।
प्रत्यक्षेकदेशविरुडी यथा सच तेजोऽभुष्णं रूपित्वादिति ॥ अत्र सर्वस्य तेजसोऽनुष्णवं साध्यं तच्चानुमानस्य प्रत्यक्ष पूर्वकत्वात् प्राक्प्रवृत्तप्रत्यक्षेण वगाहपत्यादावौष्णाग्राहिणा चन्द्ररत्नादावनौष्णाग्राहिणा विरुध्यते इति प्रत्यक्षेणैकदेशे विरुडो हेतुर्भवति ॥ ८८ ॥ पञ्चमं भेदमभिधत्ते।
अनुमानैकदेशविरुद्यो यथा नित्याश्रया द्रवत्वरसरूपगन्धस्पर्शा नित्या अप्रदेशवृत्तिसमानजात्यारम्भकले सति परमाणवृत्तित्वातहतैकत्ववदिति ॥
अत्र परमाणुवतिनो द्रवत्वादयः पञ्च धम्मिणः नित्या इति माध्यम् । अप्रदेशवृत्त्यादिहेतुः । परमाणुवयंकत्वसंख्यावदिति दृष्टान्तः । अत्रानित्याश्रयाश्रितानां द्रवत्वादीनामनित्यत्वमस्ति । तावच्छेदाथं पक्षे नित्याश्रया इति पदम् । तथा परमाणु वृत्तिवादित्यु के हेतौ तहत्तिना संयोगन व्यभिचारः स्यातनिहत्त्यर्थमप्रदेशत्तिपदम् । संयोगस्य प्रदेशवृत्तित्वात् । तथा च सूत्रम् । संयोगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वमिति ।
ट्रवत्वादयस्तु न तथा । अप्रदेशवृत्तिपरमाणुहत्तित्वादित्युक्तेपि घग्माण गत द्वित्वादिभिरनै कान्तिकत्वं स्यात्तदपोहार्थमारम्भ
Aho! Shrutgyanam