SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३० न्यायतात्पर्य दीपिका । यस्मादणुतरो नास्ति सक्रियो नित्य एव वा । नित्यत्वे सत्यजन्यो यः परमाणुः स लक्षित इति ॥ आगमबद्दमूलत्वेन बलीयस्त्वमिति ब्रूमः | ततो बलवता दुर्बलं बाध्यते इति सार्वत्रिकन्यायादेतत्ताधकं भवति । परमाणुसत्त्वे चाणुपरिमाणतारतम्यं कचिद्विश्रान्तं परिमाणतारतम्यान्महापरिमाणतारतम्यवदिति प्रमाणम् । परमाणूनाम कार्यत्वं चोपादानकारणाभावात् । यतः कार्यद्रव्यात्पटस्य तन्तुवदल्पपरिमाणमेवोपादानकारणं प्रसिद्धम् । न च परमाणुभ्योऽन्यदल्पपरिमाणं किञ्चिदस्तीति ॥ ८६ ॥ तृतीयं भेदमुपन्यस्यतीति । आगमविरुद्धो यथा ब्राह्मणेन पेयं सुरादि द्रवद्रव्यत्वात् चीरवदिति ॥ अत्र हेतुत्रैरूप्ये सत्यपि सुरादिपाननिषेधकेनागमेन बाध्यते । आगमः क इति चेत् । गौड़ी पैष्टौ च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवेका तथैवान्या न पातव्या द्विजोत्तमैः ॥ सुरां पीत्वा द्विजो मोहादग्निवसीं सुरां पिवेत् । तया स्वकाये निर्दग्धे मुच्यते किल्विषात्ततः ॥ इत्यागमादिति ब्रूमः । ब्राह्मणस्य पानार्हा सुरा पोता सती पापसाधनं न भवतीति प्रतिज्ञातात्पर्य्यार्थः । तत्र क्षीरं निदर्शनं तस्य च पावसाधनत्वाभावः श्रुतिस्मृत्यागमै कसमधिगम्यः । येन Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy