________________
अनुमानपरिच्छेदः ।
१२८
तथा ह्यज्ञातस्य निषेडुमशक्यत्वात्तथाविधौष्णास्य चाग्नेरन्यवानुपलम्भादग्नावपि प्रत्यक्षेण प्रतीतत्वात् । अन्यथास्यानुमानस्याप्रवृत्तस्ततः प्रत्यक्षप्रामाण्याभ्युपगमे मति प्रत्यक्षप्रतीतप्रतिषेधे प्रवर्त्तमानमनुमानं तहिपरीत वृत्तिना तेनेवाग्न्यौष्णाग्राहिमा प्रत्यक्षेण बाध्यते विषयापहारात् । तस्मिन् सत्यनुमानस्याभाव एव स्यात् । तदुतम् ।
वैपरीत्यपरिच्छेदे नावकाशः परस्य तु ।
मूले तस्य ह्यनुत्पन्ने पूर्वण विषयो हतः ॥ इति । नन्वयं पक्षाभासो न हेत्वाभासः। पक्षस्यैव दुष्टत्वादिति चेन्न । आश्रयस्य दौथ्येनाथितस्यापि दुष्टत्वमम्भवात् । अन्यथा यस्य कस्यापि हेतोः स्वरूपासियभावे मति हेत्वाभासत्वं क्वापि न स्यात् । ततो दुष्टपक्षवर्तिष्णुतयायं हेतुर्हेत्वाभास एवेति ॥ ८५॥
हितीयं भेदमाह !
अनुमानविरुद्धो यथा परमाणवोऽनित्या मूर्त्तवादिति ॥ अवच्छिन्त्रपरिमाणयोगित्वं मूतत्वं तद्यद्यपि परमाणुष्वस्ति तथापि तेषां नित्यत्वसाधनानुमानेनैतदनुमानं बाध्यते मूर्त्तवेऽपि परमाणू नां नित्यत्वात्। नित्यत्वसाधक किमनुमानमिति चेत् । उच्यते । परमाणवो नित्या अकार्यत्वादाकाशवदिति । नन्वस्यानुमानस्य को विशेषो बेनेदं तहाधकमिति
चेत् ।
Aho! Shrutgyanam