________________
१२८ न्यायतात्पर्य्यदीपिका। ___ अत्र सर्चस्य कार्य्यस्य पक्षीकरणान्न कश्चिद्विपक्षः। सपक्षास्त्वाकायादयस्त बोत्पत्तिधम्मकत्वाभाव एव तेषां नित्यत्वात् । पक्ष कार्योऽयं हेतुः प्रतीत एव ॥ ८३ ॥ षष्ठं भेदं व्याचष्टे ।
अविद्यमानविपक्षी विद्यमानसपक्ष: पक्षकदेशत्तियथा सर्व कायं नित्यं सावयवत्वादिति ॥ ___ अवयवैरारभ्यमाणत्वं सावयवत्वं ग्राह्यं न खवयवैः सह वर्तत इति विग्रहस्तदङ्गीकारे व्योमादि सावयवं स्यात्तस्यापि घटाद्यवयवै: सह वर्तमानत्वात् । तच्च सावयवत्वं पक्षे घटादावस्ति न बुद्ध्यादौ तस्य निरवयवत्वात् । सर्वस्य कार्यस्य पक्षीकाराद्विपक्षो नास्त्येव सपक्षे सत्यपि व्योमादौ न सावयवत्वममूर्तत्वात् ॥ ८४ ॥ *
इति षड़नध्यवसितभेदान् व्याख्याय कालात्ययापदिष्टभेदान् व्याचष्टे ।
कालात्ययापदिष्टभेदास्तु । प्रत्यक्षविरुद्धो यथानुषणोऽयमग्निः शतकत्वादिति ॥
कालात्ययापदिष्टभेदा दयन्त इति शेषः । अत्रानुमाने यद्यपि पक्षेऽग्नौ कृतकत्वं प्रमाण प्रसिद्ध मस्ति । तथाप्यौष्णाग्राहिणा स्पर्शनप्रत्यक्षेण बाधितं धर्मिणि स्थायुकतया हेतुः कालात्ययापदिष्टो भवति । प्रत्यक्षेणानुमानविषयबाधात् ।
--
-
-
* The commentitor does not explain the brackuted portion of the text ( Soepinge, 11, lines 7-).
Aho! Shrutgyanam