________________
अनुमानपरिच्छेदः।
तार्तीयं भेदं व्यनक्ति ।
विद्यमानसपक्षविपक्ष: पक्षव्यापको यथा अनित्यः शब्दः पाकाशविशेषगुणत्वादिति ॥ ___ शब्दस्यानित्यत्वे साध्ये यद्यप्यनित्यनित्यौ सपक्षविपक्षी विद्यते। तथापि शब्दादन्यस्य कस्यचिदपि साकाशविशेषगुणस्य वस्तुनोऽभावात् हेतोः सपक्षविपक्षाव्यापकत्वम् । पक्षव्यापकत्वं तु व्यक्तमेव ॥ ८१॥ चतुर्थे भेदं प्रथयति।
विद्यमानसपक्षविपक्षः पकदेशत्तियथा सर्व द्रव्यमनित्यं क्रियावत्त्वादिति ॥
अब सर्वद्रव्यस्थानित्यत्वे साध्ये नित्यत्वेन गुणकम्माणि सपक्षाः । नित्यत्वेन सामान्य विशेषसमवाया विपक्षास्तत्रोभयत्रापि नास्ति क्रियावत्त्वं तेषां निष्क्रियत्वात् । तदुक्तम् ।
गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्वे इति । सपक्षविपक्षयोः सतोरपि हेतोरव्याप्ति: तथा पक्षीकृतेषु सर्च द्रव्येषु पृथिव्यादौ क्रियावत्त्वमस्ति नाकागादौ मून्नामेव क्रियावत्त्वेन व्योमादीनां निष्क्रियत्वात् । तदप्युक्तम् । क्षितिजलज्योतिरनिलमनसां क्रियावत्त्वमूतत्वपरवापरत्ववेगवत्त्वानीति पक्षकदेशवृत्तित्वम् ॥ ८२ ॥ पञ्चमं भेदमाह।
अविद्यमानविपक्षो विद्यमानमपक्ष: पक्षव्यायको यथा सर्च कार्य नित्यमुत्पत्तिधर्मकत्वादिति ||
Aho! Shrutgyanam