SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२६ न्यायतात्पर्य्यदीपिका। इत्यष्टावनैकान्तिकभेदानभिधायाधुनानध्यवसितभेदानभिधित्सुराह। अनध्यवसितभेदास्त्वविद्यमानसपक्षविपक्षः पक्षव्यापको यथा सर्वमनित्यं सत्त्वादिति ॥ अनध्यवसितभेदा उदाह्रियन्त इति वाक्यशेषः । अनध्यवसितस्त्रेधा अविद्यमानसपक्षविपक्षतया विद्यमानसपक्षविपक्षतया अविद्यमान विपक्षविद्यमानसपक्षतया च । त्रिविधोऽपि पक्षसर्वेक. देशव्याप्तिभ्यां पुनर्वेधा । एवं भेदाः षट् भवन्ति । तत्राद्यं भेदमाह। अविद्यमानेत्यादि । अत्र सर्वशब्देन सर्वस्य पक्षीकतत्वादेव हेतोरविद्यमानसपक्षविपज्ञत्वम् । पक्षे तु सत्त्वादिति हेतुरस्त्येव । ननु यदि सपक्षविपक्षयोरभावादेव सत्र हेतुर्नास्ति तर्हि तस्य को दोष इति चेत् न। सपक्षविपक्षाभाव एव दोषः । यतो हेतः सपक्षे सन् विपक्षाह्यावर्त्तमानश्च सम्यग् हेतुतामास्तिध्रुते। अयन्तु तदभावादेव सपशे सत्त्वविपक्षाशावृत्तिवैकल्येन साध्यसाधकत्वादनध्यवसितत्वमध्यवस्थतीति ॥ ७८ ॥ द्वितीयं भेदमाविर्भावयति । अविद्यमानसपक्षविपक्षः पर्तकदेशवृत्तिर्यथा सर्वम नित्यं कार्यत्वादिति ॥ ___ अत्रापि सर्वस्य पक्षीकतत्वादेव सपक्षविपक्षयोरभावः । कार्यत्वं पक्षान्तरनित्येष्वस्ति म नित्येषिति पक्षकदेशवृत्तित्वम् ॥ १० ॥ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy