________________
अनुमानपरिच्छेदः ।
१२५
पृथिव्यादिषु चतुर्विति पक्षमपक्षकदेशवृत्तित्वम् । विपक्षे द्रव्यरूपगुणकर्ममादियदार्थपञ्चकेऽप्यस्तीति विपक्षव्यापकत्वम् ॥ ७६ ॥ सप्तमं भेदं वक्ति।
पक्षविपक्षकदेशहत्तिः सपक्षव्यापको यथा न द्रव्याणि दिकाल. मनांस्यमूर्त्तत्वादिति ॥
अत्राप्यमूर्तवं पक्षे दिकालयोरस्ति न मनसि मूर्तत्वात् । अट्रव्यत्वे साध्ये विपक्षे द्रव्ये आत्मव्योनोरमूर्त्तत्वमस्ति न पृथिव्यादिष्विति पक्षविपक्षकदेशत्तित्वम् । अट्रव्यत्वेन सपचे गुणादौ सर्वत्रास्त्यमूर्तत्वमिति सपक्षव्यापकत्वम् ॥ ७७ ॥ अष्टम भेदमाचष्टे।
सपक्षविपक्षव्यापक; पनकदेशत्तियथा न द्रव्याख्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वादिति ॥
आश्रये सत्याशुतरविनाशिनः क्षणिकाः। विशेष्यन्ते इतरेभ्यः खाश्रया व्यवच्छिद्यन्ते यैस्ते विशेषाः । क्षणिकाश्च ते विशेषगुणाश्च क्षणिकविशेषगुणास्तैरहितत्वं वियुक्त त्वमिति यावत् । अयं हेतुः पक्षे दिकालमन:स्वेवास्ति न व्योमात्मनोस्तयो; शब्दबुद्धादिभिः क्षणिकविशेषगुणवत्त्वात् । तथाच प्रशस्त पादभाष्यं आकाशामनां क्षणिकैकदेशवत्तिविशेषगुणवत्त्वमिति। तथा अद्रव्यत्वे साध्ये गुण कम्मादयः पञ्च सपक्षा: पृथिव्यादयो विपक्षास्तेष्वयं हेतुरस्ति तेषां क्षणिकविशेषगुणरहितत्वादिति हेतौ कृते पृथिव्यादीनां विशेषगुणरहितत्वाभावेन तदव्यापनादिपर कदेशवृत्तिव स्याडेतोस्तविकृत्यै चणि केति पदम् ॥ ७० ॥
Aho! Shrutgyanam